View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.18 सुंदरकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टादशस्सर्गः ।

तथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत् ॥ 1 ॥

षडंगवेदविदुषां क्रतुप्रवरयाजिनाम् ।
शुश्राव ब्रह्मघोषांश्च स विरात्रे ब्रह्मरक्षसाम् ॥ 2 ॥

अथ मंगलवादित्रशब्दैः श्रुतिमनोहरैः ।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 3 ॥

विबुध्यतु यथाकालं राक्षसेंद्रः प्रतापवान् ।
स्रस्तमाल्यांबरधरो वैदेहीमन्वचिंतयत् ॥ 4 ॥

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5 ॥

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।
तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 6 ॥

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।
सदा मदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 7 ॥

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।
वीधीः संप्रेक्षमाणश्च मणिकांचनतोरणाः ॥ 8 ॥

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।
अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ 9 ॥

अंगनाशतमात्रं तु तं व्रजंतमनुव्रजत् ।
महेंद्रमिव पौलस्त्यं देवगंधर्वयोषितः ॥ 10 ॥

दीपिकाः कांचनीः काश्चिज्जगृहुस्तत्र योषितः ।
वालव्यजनहस्ताश्च तालवृंतानि चापराः ॥ 11 ॥

कांचनैरपि भृंगारैर्जह्रुः सलिलमग्रतः ।
मंडलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः ॥ 12 ॥

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी ।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 13 ॥

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।
सौवर्णदंडमपरा गृहीत्वा पृष्ठतो ययौ ॥ 14 ॥

निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ 15 ॥

व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
समागलितकेशांताः सस्वेदवदनास्तथा ॥ 16 ॥

घूर्णंत्यो मदशेषेण निद्रया च शुभाननाः ।
स्वेदक्लिष्टांगकुसुमास्सुमाल्याकुलमूर्धजाः ॥ 17 ॥

प्रयांतं नैऋतपतिं नार्यो मदिरलोचनाः ।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 18 ॥

स च कामपराधीनः पतिस्तासां महाबलः ।
सीतासक्तमना मंदो मंदांचितगतिर्बभौ ॥ 19 ॥

ततः कांचीनिनादं च नूपुराणां च निस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 20 ॥

तं चाप्रतिमकर्माणमचिंत्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 21 ॥

दीपिकाभिरनेकाभिः समंतादवभासितम् ।
गंधतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 22 ॥

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।
समक्षमिव कंदर्पमपविद्धशरासनम् ॥ 23 ॥

मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।
सलीलमनुकर्षंतं विमुक्तं सक्तमंगदे ॥ 24 ॥

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।
समीपमिव संक्रांतं निध्यातुमुपचक्रमे ॥ 25 ॥

अवेक्षमाणस्तु ततो ददर्श कपिकुंजरः ।
रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥ 26 ॥

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।
तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ 27 ॥

क्षीबो विचित्राभरणः शंकुकर्णो महाबलः ।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 28 ॥

वृतः परमनारीभिस्ताराभिरिव चंद्रमाः ।
तं ददर्श महातेजास्तेजोवंतं महाकपिः ॥ 29 ॥

रावणोऽयं महाबाहुरिति संचिंत्य वानरः ।
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ 30 ॥

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।
पत्रगुह्यांतरे सक्तो हनुमान् संवृतोऽभवत् ॥ 31 ॥

स तामसितकेशांतां सुश्रोणीं संहतस्त्नीम् ।
दिदृक्षुरसितापांगामुपावर्तत रावणः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: