View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.61 अयोध्याकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकषष्टितमस्सर्गः ।

वनं गते धर्मपरे रामे रमयतां वरे ।
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 1 ॥

यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः ।
सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2 ॥

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ 3 ॥

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।
कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥ 4 ॥

भुक्त्वाऽशनं विशालाक्षी सूपदं शान्वितं शुभम् ।
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 5 ॥

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिंदिता ।
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ 6 ॥

महेंद्रध्वजसंकाशः क्व नु शेते महाभुजः ।
भुजं परिघसंकाशमुपधाय महाबलः ॥ 7 ॥

पद्मवर्णं सुकेशांतं पद्मनिश्श्वासमुत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 8 ॥

वज्रसारमयं नूनं हृदयं मे न संशयः ।
अपश्यंत्या न तं यद्वै फलतीदं सहस्रधा ॥ 9 ॥

यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बांधवाः ।
निरस्ताः परिधावंति सुखार्हाः कृपणा वने ॥ 10 ॥

यदि पंचदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यं च कोषं च भरतो नोपलक्षयते ॥ 11 ॥

भोजयंति किल श्राद्धे केचित्स्वानेव बांधवान् ।
ततः पश्चात्समीक्षंते कृतकार्या द्विजर्षभान् ॥ 12 ॥

तत्र ये गुणवंतश्च विद्वांसश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यंते सुधामपि सुरोपमाः ॥ 13 ॥

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः ।
नाभ्युपैतुमलं प्राज्ञा श्शृंगच्छेदमिवर्षभाः ॥ 14 ॥

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशांपते ।
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ 15 ॥

न परेणाऽहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
एवमेतन्नरव्याघ्रः परलीढं न मन्यते ॥ 16 ॥

हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः ।
नैतानि यातयामानि कुर्वंति पुनरध्वरे ॥ 17 ॥

तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।
नाभिमंतुमलं रामो नष्टसोममिवाध्वरम् ॥ 18 ॥

न चेमां धर्षणां राम संगच्छेदत्यमर्षणः ।
दारयेन्मंदरमपि स हि क्रुद्धश्शितैश्शरैः ॥ 19 ॥

त्वां तु नोत्सहते हंतुं महात्मा पितृगौरवात् ।
ससोमार्कग्रहगणं नभस्ताराविचित्रितम् ॥ 20 ॥

पातयेद्योदिवं क्रुद्धस्सत्वां न व्यतिवर्तते ।
प्रक्षोभयेद्वारये द्वा महीं शैलशताचिताम् ॥ 21 ॥

नैवं विधमसत्कारं राघवो मर्षयिष्यति ।
बलवानिव शार्दूलो वालधेरभिमर्शनम् ॥ 22 ॥

नैतस्य सहिता लोका भयं कुर्युर्महामृथे ।
अधर्मंत्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 23 ॥

नन्वसौ कांचनैर्बाणैर्महावीर्यो महाभुजः ।
युगांत इव भूतानि सागरानपि निर्दहेत् ॥ 24 ॥

स तादृशस्सिंहबलो वृषभाक्षो नरर्षभः ।
स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ 25 ॥

द्विजातिचरितो धर्मश्शास्त्रदृष्टस्सनातनः ।
यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ 26 ॥

गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः ।
तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 27 ॥

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।
न वनं गंतुमिच्छामि सर्वथा निहता त्वया ॥ 28 ॥

हतं त्वया राज्यमिदं सराष्ट्रं हतस्तथाऽत्मा सह मंत्रिभिश्च ।
हता सपुत्राऽस्मि हताश्च पौरास्सुत श्च भार्या च तव प्रहृष्टौ ॥ 29 ॥

इमां गिरं दारुणशब्द संश्रितां निशम्य राजाऽपि मुमोह दुःखितः ।
तत स्स शोकं प्रविवेश पार्थिवस्स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: