View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.92 अयोध्याकांड - द्विनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्विनवतितमस्सर्गः ।

ततस्तां रजनीमुष्य भरतस्सपरिच्छदः ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ 1 ॥

तं ऋषिः पुरुषव्याघ्रं प्रांजलिं प्रेक्ष्य चाऽगतम् ।
हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ 2 ॥

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ 3 ॥

तमुवाचांजलिं कृत्वा भरतोऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रांतमृषिमुत्तमतेजसम् ॥ 4 ॥

ससुखोषितोऽस्मि भगवन्समग्रबलवाहनः ।
तर्पितस्सर्वकामैश्च सामात्यो बलवत्त्वया ॥ 5 ॥

अपेतक्लमसंतापा स्सुभिक्षास्सुप्रतिश्रयाः ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ 6 ॥

आमंत्रयेऽहं भगवन् कामं त्वामृषिसत्तमः ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ 7 ॥

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ 8 ॥

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ 9 ॥

भरतार्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः ॥ 10 ॥

उत्तरं पार्श्वमासाद्य तस्य मंदाकिनी नदी ।
पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना ॥ 11 ॥

अनंतरं तत्सरितश्चित्रकूटश्च पर्वतः ।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ 12 ॥

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ॥ 13 ॥

वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।
प्रयाणमिति तच्छ्रुत्वा रजराजस्य योषितः ।
हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन् ॥ 14 ॥

वेपमाना कृशा दीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ 15 ॥

असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ 16 ॥

तं प्रदक्षिणमागम्य भगवंतं महामुनिम् ।
अदूरार्भरतस्यैव तस्थौ दीनमनास्तदा ॥ 17 ॥

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
विशेषं ज्ञातुमिच्छामि मात्रूणां तव राघव ॥ 18 ॥

एवमुक्तस्तु भरतो भरद्वाजेन धीमता ।
उवाच प्रांजलिर्भूत्वा वाक्यं वचनकोविदः ॥ 19 ॥

यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ 20 ॥

एषा तं पुरषव्याघ्रं सिंहविक्रांतगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ 21 ॥

अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनांतरे ॥ 22 ॥

एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ 23 ॥

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ 24 ॥

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्यामार्यारूपिणीम् ॥ 25 ॥

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतोमूलं हि पश्यामि व्यसनं महदात्मनः ॥ 26 ॥

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निश्स्वास ताम्राक्षो नागः कृद्ध इव श्वसन् ॥ 27 ॥

भरद्वाजो महर्षिस्तं ब्रुवंतं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ 28 ॥

न दोषेणावगंतव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति ॥ 29 ॥

देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ 30 ॥

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
आमंत्र्य भरत स्सैन्यं युज्यतामित्यचोदयत् ॥ 31 ॥

ततो वाजिरथान्युक्तान् दिव्यान्हेमपरिष्कृतान् ।
अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः ॥ 32 ॥

गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ।
जीमूता इव घर्मांते सघोषास्संप्रतस्थिरे ॥ 33 ॥

विविधान्यपि यानानि महंति च लघूनि च ।
प्रययु स्सुमहार्हाणि पादै रेव पदातयः ॥ 34 ॥

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।
रामदर्शनकांक्षिण्यः प्रययुर्मुदितास्तदा ॥ 35 ॥

चंद्रार्कतरुणाभासां निर्युक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान्भरत स्सपरिच्छदः ॥ 36 ॥

सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ 37 ॥

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ।
गंगायाः परवेलायां गिरिष्वपि नदीषु च ॥ 38 ॥

सा संप्रहृष्टद्विपवाजियोधा वित्रासयंती मृगपक्षिसंघान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्विनवतितमस्सर्गः ॥




Browse Related Categories: