View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.24 अयोध्याकांड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुर्विंशस्सर्गः ।

तं समीक्ष्य त्ववहितं पितुर्निर्देश पालने ।
कौशल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ 1 ॥

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
मयि जातो दशरथात्कथमुंछेन वर्तयेत् ॥ 2 ॥

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुंजते ।
कथं स भोक्ष्यतेऽनाथो वने मूलफलान्ययम् ॥ 3 ॥

कः एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ।
गुणवांदयितो राज्ञा राघवो यद्विवास्यते ॥ 4 ॥

नूनं तु बलवान् लोके कृतांतस्सर्वमादिशन् ।
लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ 5 ॥

अयं तु मामात्मभव स्तवादर्शनमारुतः ।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ 6 ॥

चिंताबाष्पमहाधूमस्तवागमनचित्तजः ।
कर्शयित्वा भृशं पुत्र निश्वासायाससंभवः ॥ 7 ॥

त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ 8 ॥

कथं हि धेनु स्स्वं वत्सं गच्छंतं नानुगच्छति ।
अहं त्वाऽनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥ 9 ॥

. ।
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।
श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 10 ॥

कैकेय्या वंचितो राजा मयि चारण्यमाश्रिते ।
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ 11 ॥

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।
स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ 12 ॥

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।
शुश्रूषा क्रियतां तावत्सहि धर्मस्सनातनः ॥ 13 ॥

एवमुक्ता तु रामेण कौशल्या शुभदर्शना ।
तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ 14 ॥

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।
भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 15 ॥

मया चैव भवत्या च कर्तव्यं वचनं पितुः ।
राजा भर्ता गुरु श्श्रेष्ठस्सर्वेषामीश्वरः प्रभुः ॥ 16 ॥

इमानि तु महारण्ये विहृत्य नव पंच च ।
वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ 17 ॥

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।
उवाच परमार्ता तु कौशल्या पुत्रवत्सला ॥ 18 ॥

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
नय मामपि काकुत्स्थ वनं वन्यां मृगीं यथा ॥ 19 ॥

यदि ते गमने बुद्धिः कृता पितुरपेक्षया ।
तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ॥ 20 ॥

जीवंत्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ॥ 21 ॥

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।
भवतीमनुवर्तेत स हि धर्मरतस्सदा ॥ 22 ॥

यथा मयि तु निष्क्रांते पुत्रशोकेन पार्थिवः ।
श्रमं नावाप्नुयात्किंचिदप्रमत्ता तथा कुरु ॥ 23 ॥

दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।
राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ 24 ॥

व्रतोपवासनिरता या नारी परमोत्तमा ।
भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ 25 ॥

भर्तु श्शुश्रूषया नारी लभते स्वर्गमुत्तमम् ।
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ 26 ॥

शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ 27 ॥

अग्निकार्येषु च सदा सुमनोभिश्च देवताः ।
पूज्यास्ते मत्कृते देवि बाह्मणाश्चैव सुव्रताः ॥ 28 ॥

एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी ।
नियता नियताहारा भर्तृशुश्रूषणे रता ॥ 29 ॥

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ 30 ॥

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।
कौशल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ 31 ॥

गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक ।
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥ 32 ॥

गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभुः ।
पुनस्त्वयि निवृत्ते तु भविष्यामि गतव्यथा ॥ 33 ॥

प्रत्यागते महाभागे कृतार्थे चरितव्रते ।
पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ॥ 34 ॥

कृतांतस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ।
यस्त्वां संचोदयति मे वच आच्छिद्य राघव ॥ 35 ॥

गच्छेदानीं महाबाहो क्षेमेण पुनरागतः ।
नंदयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा ॥ 36 ॥

अपीदानीं स कालस्स्याद्वनात्प्रत्यागतं पुनः ।
यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ 37 ॥

तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुर्विंशस्सर्गः ॥




Browse Related Categories: