View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.4 बालकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुर्थस्सर्गः ।

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥ 1 ॥

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान्पंच षट्कांडानि तथोत्तरम् ॥ 2 ॥

कृत्वापि तन्महाप्राज्ञस्सभविष्यं सहोत्तरम् ।
चिंतयामास कोन्वेतत्प्रयुंजीयादिति प्रभुः ॥ 3 ॥

तस्य चिंतयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ 4 ॥

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ 5 ॥

स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ 6 ॥

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ 7 ॥

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिस्सप्तभिर्बद्धं तंत्रीलयसमन्वितम् ॥ 8 ॥

रसैश्शृंगारकारुण्यहास्यवीरभयानकैः ।
रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ॥ 9 ॥

तौ तु गांधर्वतत्त्वज्ञौ मूर्छनास्थानकोविदौ ।
भ्रातरौ स्वरसंपन्नौ गंधर्वाविव रूपिणौ ॥ 10 ॥

रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।
बिंबादिवोद्धृतौ बिंबौ रामदेहात्तथाऽपरौ ॥ 11 ॥

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिंदितौ ॥ 12 ॥

ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुस्सुसमाहितौ ॥ 13 ॥

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।
आसीनानां समीपस्थाविदं काव्यमगायताम् ॥ 14 ॥

तच्छ्रुत्वा मुनयस्सर्वे बाष्पपर्याकुलेक्षणाः ।
साधुसाध्विति तावूचुः परं विस्मयमागताः ॥ 15 ॥

ते प्रीतमनसस्सर्वे मुनयो धर्मवत्सलाः ।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ 16 ॥

अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ॥ 17 ॥

प्रविश्य तावुभौ सुष्ठु भावं सम्यगगायताम् ।
सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा ॥ 18 ॥

एवं प्रशस्यमानौ तौ तपश्श्लाघ्यैर्महात्मभिः ।
संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ 19 ॥

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।
प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः ॥ 20 ॥

आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ।
परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥ 21 ॥

अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ।
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ॥ 22 ॥

प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥ 23 ॥

स्ववेश्म चानीय तदा भ्रातरौ स कुशीलवौ ।
पूजयामास पूजार्हौ रामश्शत्रुनिबर्हणः ॥ 24 ॥

आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ।
उपोपविष्टस्सचिवैर्भ्रातृभिश्च परंतपः ॥ 25 ॥

दृष्ट्वा तु रूपसंपन्नौ तावुभौ नियतस्तथा ।
उवाच लक्ष्मणं रामश्शत्रुघ्नं भरतं तदा ॥ 26 ॥

श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ।
विचित्रार्थपदं सम्यग्गायकौ तावचोदयत् ॥ 27 ॥

तौ चापि मधुरं रक्तं स्वंचितायतनिस्वनम् ।
तंत्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ 28 ॥

ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ॥ 29 ॥

इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ।
ममापि तद्भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ॥ 30 ॥

ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसंपदा ।
स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: