View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.93 अयोध्याकांड - त्रिनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिनवतितमस्सर्गः ।

तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्दिता यूथपा मत्ताः सयूथास्संप्रदुद्रुवुः ॥ 1 ॥

ऋक्षाः पृषतसंघाश्च रुरवश्च समंततः ।
दृश्यंते वनराजीषु गिरिष्वपि नदीषु च ॥ 2 ॥

स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरंगया ॥ 3 ॥

सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं संछादयामास प्रावृषि द्यामिवांबुदः ॥ 4 ॥

तुरंगौघैरवतता वारणैश्च महाजवैः ।
अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः ॥ 5 ॥

स यात्वा दूरमध्वानं सुपरिश्रांतवाहनः ।
उवाच भरत श्श्रीमान् वसिष्ठं मंत्रिणां वरम् ॥ 6 ॥

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ 7 ॥

अयं गिरिश्चित्रकूट इयं मंदाकिनी नदी ।
एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ 8 ॥

गिरे स्सानूनि रम्याणि चित्रकूटस्य संप्रति ।
वारणैरवमृद्यंते मामकै पर्वतोपमैः ॥ 9 ॥

मुंचंति कुसुमान्येते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ 10 ॥

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगैस्समंतादाकीर्णं मकरैरिव सागरम् ॥ 11 ॥

एते मृगगणा भांति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धा श्शरदि मेघराजिरिवांबरे ॥ 12 ॥

कुर्वंति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ 13 ॥

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा ॥ 14 ॥

खुरैरुदीरितो रेणुर्दावं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिल श्श्रीघ्रं कुर्वन्निव मम प्रियम् ॥ 15 ॥

स्यंदनांस्तुरगोपेतान्सूतमुख्यै रधिष्ठितान् ।
एतान्संपततश्श्रीघ्रं पश्य शत्रुघ्न कानने ॥ 16 ॥

एतान्वित्रासितान्पश्यबर्हिणः प्रियदर्शनान् ।
एतमाविशत श्श्रीघ्रमधिवासं पतत्रिणः ॥ 17 ॥

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मे ।
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ 18 ॥

मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा दृश्यंते कुसुमैरिव चित्रिताः ॥ 19 ॥

साधु सैन्याः प्रतिष्ठंतां विचिन्वंतु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ 20 ॥

भरतस्य वचश्श्रुत्वा पुरुषाश्शस्त्रपाणयः ।
विविशु स्तद्वनं शूरा धूमं च ददृशु स्ततः ॥ 21 ॥

ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये भवत्यग्नि र्व्यक्तमत्रैव राघवौ ॥ 22 ॥

अथ नाऽत्र नरव्याघ्रौ राजपुत्रौ परंतपौ ।
अन्ये रामोपमा स्संति व्यक्तमत्र तपस्विनः ॥ 23 ॥

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ 24 ॥

यत्ता भवंतस्तिष्ठंतु नेतो गंतव्यमग्रतः ।
अहमेव गमिष्यामि सुमंत्रो गुरुरेव च ॥ 25 ॥

एवमुक्ता स्ततस्सर्वे तत्र तस्थुः समंतः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ 26 ॥

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणाऽपि च भूमिमग्रतः ।
बभूव हृष्टा न चिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिनवतितमस्सर्गः ॥




Browse Related Categories: