View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.52 अयोध्याकांड - द्विपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्विपंचाशस्सर्गः ।

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ 1 ॥

भास्करोदयकालोऽयं गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ 2 ॥

बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् ॥ 3 ॥

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनंदनः ।
गुहमामंत्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ 4 ॥

स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ 5 ॥

अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम् ।
सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ 6 ॥

तं निशम्य समादेशं गुहामात्यगणो महान् ।
उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ 7 ॥

ततः स प्रांजलिर्भूत्वा गुहो राघवमब्रवीत् ।
उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ 8 ॥

तवामरसुतप्रख्य तर्तुं सागरगां नदीम् ।
नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ 9 ॥

अथोवाच महातेजा रामो गुहमिदं वचः ।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ 10 ॥

ततः कलापान् सन्नह्य खड्गौ बध्वा च धन्विनौ ।
जग्मतुर्येन तौ गंगां सीतया सह राघवौ ॥ 11 ॥

राममेव तु धर्मज्ञमुपगम्य विनीतवत् ।
किमहं करवाणीति सूतः प्रांजलिरब्रवीत् ॥ 12 ॥

ततोऽब्रवीद्दाशरथिः सुमंत्रं स्पृशन् करेणोत्तमदक्षिणेन ।
सुमंत्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ॥ 13 ॥

निवर्तस्वेत्युवाचैव ह्येतावद्धि कृतं मम ।
रथं विहाय पद्भ्यां तु गमिष्यामि महावनम् ॥ 14 ॥

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।
सुमंत्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ 15 ॥

नातिक्रांतमिदं लोके पुरुषेणेह केनचित् ।
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ 16 ॥

न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ।
मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ 17 ॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव ॥ 18 ॥

वयं खलु हता राम ये त्वयाप्युपवंचिताः ।
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ 19 ॥

इति ब्रुवन्नात्मसमं सुमंत्रः सारथिस्तदा ।
दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम् ॥ 20 ॥

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।
रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ॥ 21 ॥

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।
यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ 22 ॥

शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ।
कामभावावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ 23 ॥

यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिः ।
कैकेय्याः प्रियकामार्थं कार्यं तदविकांक्षया ॥ 24 ॥

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ 25 ॥

यद्यथा स महाराजो नालीकमधिगच्छति ।
न च ताम्यति दुःखेन सुमंत्र कुरु तत्तथा ॥ 26 ॥

अदृष्टदुःखं राजानं वृद्धमार्यं जितेंद्रियम् ।
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ 27 ॥

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥ 28 ॥

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणं मां च सीतां च द्रक्ष्यसे क्षिप्रमागतान् ॥ 29 ॥

एवमुक्त्वा तु राजानं मातरं च सुमंत्र मे ।
अन्याश्च देवीस्सहिताः कैकेयीं च पुनः पुनः ॥ 30 ॥

आरोग्यं ब्रूहि कौशल्यामथ पादाभिवंदनम् ।
सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च ॥ 31 ॥

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।
आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ 32 ॥

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।
अस्मत्संतापजं दुःखं न त्वामभिभविष्यति ॥ 33 ॥

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ 34 ॥

तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
लोकयोरुभयोः शक्यं त्वया यत्सुखमेधितुम् ॥ 35 ॥

निवर्त्यमानो रामेण सुमंत्रः शोककर्शितः ।
तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ॥ 36 ॥

यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः ।
भक्तिमानिति तत्तावद्वाक्यं त्वं क्षंतुमर्हसि ॥ 37 ॥

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ।
तव तावद्वियोगेन पुत्रशोकाकुलामिव ॥ 38 ॥

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ।
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ 39 ॥

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ।
सूतावशेषं स्वं सैन्यं हतवीरमिवाऽहवे ॥ 40 ॥

दूरेऽपि निवसंतं त्वां मानसेनाग्रतः स्थितम् ।
चिंतयंतोऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ 41 ॥

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ।
प्रजानां संकुलं वृत्तं त्वच्छोकक्लांतचेतसाम् ॥ 42 ॥

आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने ।
सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ 43 ॥

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।
नीतोऽसौ मातुलकुलं संतापं मा कृथा इति ॥ 44 ॥

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।
कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ 45 ॥

मम तावन्नियोगस्थास्त्वद्बंधुजनवाहिनः ।
कथं रथं त्वया हीनं प्रवक्ष्यंति हयोत्तमाः ॥ 46 ॥

तन्न शक्ष्याम्यहं गंतुमयोध्यां त्वदृतेऽनघ ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ 47 ॥

यदि मे याचमानस्य त्यागमेव करिष्यसि ।
सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ 48 ॥

भविष्यंति वने यानि तपोविघ्नकराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ 49 ॥

त्वत्कृते न मयाऽवाप्तं रथचर्याकृतं सुखम् ।
आशंसे त्वत्कृते नाहं वनवासकृतं सुखम् ॥ 50 ॥

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनंतरः ।
प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनंतरः ॥ 51 ॥

इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्यां करिष्यंति प्राप्स्यंति परमां गतिम् ॥ 52 ॥

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ॥ 53 ॥

न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना ।
राजधानी महेंद्रस्य यथा दुष्कृतकर्मणा ॥ 54 ॥

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।
यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ 55 ॥

चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।
क्षणभूतानि यास्यंति शतसंख्यान्यतोऽन्यथा ॥ 56 ॥

भृत्यवत्सल तिष्ठंतं भर्तृपुत्रगते पथि ।
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ 57 ॥

एवं बहुविधं दीनं याचमानं पुनः पुनः ।
रामो भृत्यानुकंपी तु सुमंत्रमिदमब्रवीत् ॥ 58 ॥

जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ 59 ॥

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ 60 ॥

परितुष्टा हि सा देवी वनवासं गते मयि ।
राजानं नातिशंकेत 'मिथ्यावादी'ति धार्मिकम् ॥ 61 ॥

एष मे प्रथमः कल्पो यदंबा मे यवीयसी ।
भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ 62 ॥

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।
संदिष्टश्चासि यानर्थांस्तां स्तान् ब्रूयास्तथा तथा ॥ 63 ॥

इत्युक्त्वा वचनं सूतं सांत्वयित्वा पुनः पुनः ।
गुहं वचनमक्लीबो रामो हेतुमदब्रवीत् ॥ 64 ॥

नेदानीं गुह योग्योऽयं वासो मे सजने वने ।
आवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ॥ 65 ॥

सोऽहं गृहीत्वा नियमं तपस्वि जनभूषणम् ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ 66 ॥

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।
तत् क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ॥ 67 ॥

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ।
दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ 68 ॥

तौ तदा चीरवसनौ जटामंडलधारिणौ ।
आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ 69 ॥

ततो वैखानसं मार्गमास्थितः सह लक्ष्मणः ।
व्रतमादिष्टवान् रामः सखायं गुहमब्रवीत् ॥ 70 ॥

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।
भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ 71 ॥

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनंदनः ।
जगाम तूर्णमव्यग्रः सभार्यः सह लक्ष्मणः ॥ 72 ॥

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनंदनः ।
तितीर्षुः शीघ्रगां गंगामिदं लक्ष्मणमब्रवीत् ॥ 73 ॥

आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः ।
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ 74 ॥

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।
आरोप्य मैथिलीं पूर्वमारुरोहाऽऽत्मवां स्ततः ॥ 75 ॥

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।
ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ 76 ॥

राघवोऽपि महातेजा नावमारुह्य तां ततः ।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥ 77 ॥

आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।
प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ 78 ॥

अनुज्ञाय सुमंत्रं च सबलं चैव तं गुहम् ।
आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ 79 ॥

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ।
शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ 80 ॥

. ।
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिंदिता ।
वैदेही प्रांजलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ 81 ॥

पुत्रो दशरथस्यायं महाराजस्य धीमतः ।
निदेशं पारयित्वेमं गंगे त्वदभिरक्षितः ॥ 82 ॥

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ 83 ॥

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।
यक्ष्ये प्रमुदिता गंगे सर्वकामसमृद्धिनी ॥ 84 ॥

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे ।
भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे ॥ 85 ॥

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ 86 ॥

गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ 87 ॥

सुराघटसहस्रेण मांसभूतौदनेन च ।
यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ 88 ॥

यानि त्वत्तीरवासीनि दैवतानि च संति हि ।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ 89 ॥

पुनरेव महाबाहुर्मया भ्रात्रा च संगतः ।
अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ॥ 90 ॥

तथा संभाषमाणा सा सीता गंगामनिंदिता ।
दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ 91 ॥

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥ 92 ॥

अथाब्रवीन्महाबाहुः सुमित्रानंदवर्धनम् ।
भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ 93 ॥

अवश्यं रक्षणं कार्यमदृष्टे विजने वने ।
अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ 94 ॥

पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ।
अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ॥ 95 ॥

न हि तावदतिक्रांता सुकरा काचन क्रिया ।
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ 96 ॥

प्रणष्टजनसंबाधं क्षेत्रारामविवर्जितम् ।
विषमं च प्रपातं च वनमद्य प्रवेक्ष्यति ॥ 97 ॥

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः ।
अनंतरं च सीताया राघवो रघुनंदनः ॥ 98 ॥

गतं तु गंगापरपारमाशु रामं सुमंत्रः प्रततं निरीक्ष्य ।
अध्वप्रकर्षाद्विनिवृत्तदृष्टि र्मुमोच बाष्पं व्यथित स्तपस्वी ॥ 99 ॥

स लोकपालप्रतिमप्रभाववां स्तीर्त्वा महात्मा वरदो महानदीम् ।
ततः समृद्धान् शुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत् ॥ 100 ॥

तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् ।
आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ 101 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्विपंचाशस्सर्गः ॥




Browse Related Categories: