View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.25 अयोध्याकांड - पंचविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचविंशस्सर्गः ।

साऽवनीय तमायासमुपस्पृश्य जलं शुचिः ।
चकार माता रामस्य मंगलानि मनस्विनी ॥ 1 ॥

न शक्यसे वारयितुं गच्छेदानीं रघूत्तम ।
शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥ 2 ॥

यं पालयसि धर्मं त्वं धृत्या च नियमेन च ।
स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ 3 ॥

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।
ते च त्वामभिरक्षंतु वने सह महर्षिभिः ॥ 4 ॥

यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
तानि त्वामभिरक्षंतु गुणैस्समुदितं सदा ॥ 5 ॥

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा ।
सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥ 6 ॥

समित्कुश पवित्राणि वेद्यश्चायतनानि च ।
स्थंडिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः ॥ 7 ॥

पतंगाः पन्नगास्सिंहास्त्वां रक्षंतु नरोत्तम ।
स्वस्तिसाध्याश्च विश्वे च मरुतश्च महर्षयः ।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ 8 ॥

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।
ऋतवश्चैव पक्षाश्च मासा स्संवत्सराः क्षपाः ॥ 9 ॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वंतु ते सदा ।
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥ 10 ॥

स्कंदश्च भगवांदेव स्सोमश्च स बृहस्पतिः ।
सप्तर्षयो नारदश्च ते त्वां रक्षंतु सर्वतः ॥ 11 ॥

याश्चापि सर्वतस्सिध्दा दिशश्च सदिगीश्वराः ।
स्तुता मया वने तस्मिन्पांतु त्वां पुत्र नित्यशः ॥ 12 ॥

शैलास्सर्वे समुद्राश्च राजा वरुण एव च ।
द्यौरंतरिक्षं पृथिवी नद्यस्सर्वास्तथैव च ॥ 13 ॥

नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः ।
अहोरात्रे तथा संध्ये पांतु त्वां वनमाश्रितम् ॥ 14 ॥

ऋतवश्चैव षट्पुण्या मासास्संवत्सरास्तथा ।
कलाश्च काष्ठाश्च तथा तव शर्म दिशंतु ते ॥ 15 ॥

महावने विचरतो मुनिवेषस्य धीमतः ।
तवादित्याश्च दैत्याश्च भवंतु सुखदास्सदा ॥ 16 ॥

राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ।
क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम् ॥ 17 ॥

प्लवगा वृश्चिका दंशामशकाश्चैव कानने ।
सरीसृपाश्च कीटाश्च मा भूवन्गहने तव ॥ 18 ॥

महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।
महिषा श्शृंगिणो रौद्रा न ते द्रुह्यंतु पुत्रक ॥ 19 ॥

नृमांसभोजना रौद्रा ये चान्ये सत्वजातयः ।
मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह ॥ 20 ॥

आगमास्ते शिवास्संतु सिध्यंतु च पराक्रमाः ।
सर्वसंपत्तये राम स्वस्तिमान्गच्छ पुत्रक ॥ 21 ॥

स्वस्ति ते ऽस्त्वंतरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।
सर्वेभ्यश्चैव देवेभ्यो ये च वै परिपंथिनः ॥ 22 ॥

गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ।
पांतु त्वामर्चिता राम दंडकारण्यवासिनम् ॥ 23 ॥

अग्निर्वायुस्तथा धूमो मंत्राश्चर्षिमुखाच्च्युताः ।
उपस्पर्शनकाले तु पांतु त्वां रघुनंदन ॥ 24 ॥

सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ।
ये च शेषास्सुरास्ते त्वां रक्षंतु वनवासिनम् ॥ 25 ॥

इति माल्यैस्सुरगणान्गंधैश्चापि यशस्विनी ।
स्तुतिभिश्चानुरूपाभिरानर्चाऽयतलोचना ॥ 26 ॥

ज्वलनं समुपादाय ब्राह्मणेन महात्मना ।
हावयामास विधिना राममंगलकारणात् ॥ 27 ॥

घृतं श्वेतानि माल्यानि समिधश्श्वेतसर्षपान् ।
उपसंपादयामास कौशल्या परमांगना ॥ 28 ॥

उपाध्याय स्सविधिना हुत्वा शांतिमनामयम् ।
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ 29 ॥

मधु दध्यक्षतघृतैः स्वस्तिवाच्यद्विजांस्ततः ।
वाचयामास रामस्य वनेस्वस्त्ययनक्रियाः ॥ 30 ॥

ततस्तस्मै द्विजेंद्राय राममाता यशस्विनी ।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ 31 ॥

यन्मंगलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत्तत्ते भवतु मंगलम् ॥ 32 ॥

यन्मंगलं सुपर्णस्य विनताऽकल्पयत्पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मंगलम् ॥ 33 ॥

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मंगलं प्रादात्तत्ते भवतु मंगलम् ॥ 34 ॥

त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मंगलं राम तत्ते भवतु मंगलम् ॥ 35 ॥

ऋतवस्सागरा द्वीपा वेदा लोका दिशश्च ते ।
मंगलानि महाबाहो दिशंतु शुभमंगलाः ॥ 36 ॥

इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी ।
गंधैश्चापि समालभ्य राममायतलोचना ॥ 37 ॥

ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
चकार रक्षां कौशल्या मंत्रैरभिजजाप च ॥ 38 ॥

उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी ।
वांग्मात्रेण न भावेन वाचाऽसंसज्जमानया ॥ 39 ॥

आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम् ॥ 40 ॥

अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ 41 ॥

प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना ।
द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचंद्रमिवोदितम् ॥ 42 ॥

भद्रासनगतं राम वनवासादिहागतम् ।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवंतं पितुर्वचः ॥ 43 ॥

मंगलैरुपसपन्नो वनवासादिहागतः ।
वध्वा मम च नित्यं त्वं कामान्संवर्ध याहि भोः ॥ 44 ॥

मयाऽर्चिता देवगणाश्शिवादयो महर्षयो भूतमहासुरोरगाः ।
अभिप्रयातस्य वनं चिराय ते हितानि कांक्षंतु दिशश्च राघव ॥ 45 ॥

इतीव साऽश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ।
प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे ॥ 46 ॥

तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः ।
जगाम सीतानिलयं महायशा स्स राघवः प्रज्वलित स्स्वया श्रिया ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचविंशस्सर्गः ॥




Browse Related Categories: