View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.56 किष्किंधाकांड - षट्पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षट्पंचाशस्सर्गः ।

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ 1 ॥

संपातिर्नाम नाम्ना तु चिरंजीवी विहंगमः ।
भ्राता जटायुषः श्रीमान्विख्यातबलपौरुषः ॥ 2 ॥

कंदरादभिनिष्क्रम्य स विंध्यस्य महागिरेः ।
उपविष्टान्हरींदृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ 3 ॥

विधिः किल नरं लोके विधानेनानुवर्तते ।
यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ 4 ॥

परंपराणां भक्षिष्ये वानराणां मृतं मृतम् ।
उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवंगमान् ॥ 5 ॥

तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ।
अंगदः परमायस्तो हनूमंतमथाब्रवीत् ॥ 6 ॥

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ 7 ॥

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।
हरीणामियमज्ञाता विपत्तिस्सहसागता ॥ 8 ॥

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।
गृध्राराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ 9 ॥

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।
प्रियं कुर्वंति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥ 10 ॥

अन्योऽन्यमुपकुर्वंति स्नेहकारुण्ययंत्रिताः ।
तेन तस्योपकारार्थं त्यजताऽत्मानमात्मना ॥ 11 ॥

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ।
राघवार्थे परिश्रांता वयं संत्यक्तजीविताः ॥ 12 ॥

कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।
स सुखी गृध्रराजस्तु रावणेन हतो रणे ॥ 13 ॥

मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ।
जटायुषो विनाशेन राज्ञो दशरथस्य च ॥ 14 ॥

हरणेन च वैदेह्या स्संशयं हरयो गताः ।
रामलक्ष्मणयोर्वासश्च अरण्ये सह सीतया ॥ 15 ॥

राघवस्य च बाणेन वालिनश्च तथा वधः ।
रामकोपादशेषाणां रक्षसानां तथा वधः ॥ 16 ॥

कैकेय्या वरदानेन इदं च विकृतं कृतम् ।
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ।
भृशचलितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट् ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षट्पंचाशस्सर्गः ॥




Browse Related Categories: