View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.66 अरण्यकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

तं तथा शोकसंतप्तं विलपंतमनाथवत् ।
मोहेन महताविष्टं परिद्यूनमचेतनम् ॥ 1 ॥

ततस्सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।
रामं संबोधयामास चरणौ चाभिपीडयन् ॥ 2 ॥

महता तपसा राम महता चापि कर्मणा ।
राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ॥ 3 ॥

तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।
राजा देवत्वमापन्नो भरतस्य यथाश्रुतम् ॥ 4 ॥

यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे ।
प्राकृतश्चाल्पसत्त्वश्च इतरः कस्सहिष्यति ॥ 5 ॥

दुःखितो हि भवान्लोकांस्तेजसा यदि धक्ष्यते ।
आर्ताः प्रजा नरव्याघ्र क्व नु यास्यंति निर्वृतिम् ॥ 6 ॥

लोकस्वभाव एवैष ययातिर्नहुषात्मजः ।
गतश्शक्रेण सालोक्यमनयस्तं समस्पृशत् ॥ 7 ॥

महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः ।
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ 8 ॥

या चेयं जगतां माता देवी लोकनमस्कृता ।
अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ॥ 9 ॥

यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।
आदित्यचंद्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ 10 ॥

सुमहांत्यपि भूतानि देवाश्च पुरुषर्षभ ।
न दैवस्य प्रमुंचंति सर्वभूतानि देहिनः ॥ 11 ॥

शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ ।
श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि ॥ 12 ॥

नष्टायामपि वैदेह्यां हृतायामपि चानघ शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा ॥ 13 ॥

त्वव्दिधा न हि शोचंति सततं सत्यदर्शिनः ।
सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥ 14 ॥

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय ।
बुध्द्या युक्ता महाप्राज्ञा विजानंति शुभाशुभे ॥ 15 ॥

अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम् ।
नांतरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ 16 ॥

त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः ।
अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः ॥ 17 ॥

बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ।
शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम् ॥ 18 ॥

दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् ।
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ 19 ॥

किं तेन सर्वनाशेन कृतेन पुरुषर्षभ ।
तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: