View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.72 अयोध्याकांड - द्विसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्विसप्ततितमस्सर्गः ।

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।
जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ 1 ॥

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥ 2 ॥

स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।
भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ 3 ॥

सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् ।
अंके भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ 4 ॥

अद्य ते कतिचिद्रात्र्य श्च्युतस्याऽर्यकवेश्मनः ।
अपि नाध्वश्रमशशीघ्रं रथेनापततस्तव ॥ 5 ॥

आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ।
प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥ 6 ॥

एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनंदनः ।
आचष्ट भरत स्सर्वं मात्रे राजीवलोचनः ॥ 7 ॥

अद्य मे सप्तमी रात्रिश्च्युतस्याऽर्यकवेश्मनः ।
अंबायाः कुशली तात युधाजिन्मातुलश्च मे ॥ 8 ॥

यन्मे धनं च रत्नं च ददौ राजा परंतपः ।
परिश्रांतं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ 9 ॥

राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः ।
यदहं प्रष्टुमिच्छामि तदंबा वक्तुमर्हति ॥ 10 ॥

शून्योऽयं शयनीयस्ते पर्यंको हेमभूषितः ।
न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा ॥ 11 ॥

राजा भवति भूयिष्ठमिहांबाया निवेशने ।
तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहाऽगतः ॥ 12 ॥

पितुर्ग्रहीष्ये चरणौ तं ममाऽख्याहि पृच्छतः ।
आहोस्विदंब ज्येष्ठायाः कौसल्याया निवेशने ॥ 13 ॥

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।
अजानंतं प्रजानंती राज्यलोभेन मोहिता ॥ 14 ॥

या गतिस्सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महत्मा तेजस्वी यायजूकस्सतां गतिः ॥ 15 ॥

तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवांचुचिः ।
पपात सहसा भूमौ पितृशोकबलार्दितः ॥ 16 ॥

हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् ।
निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान् ॥ 17 ॥

ततश्शोकेन संवीतः पितुर्मरणदुःखितः ।
विललाप महातेजा भ्रांताकुलितचेतनः ॥ 18 ॥

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।
शशिनेवामलं रात्रौ गगनं तोयदात्यये ॥ 19 ॥

तदिदं न विभात्यद्य विहीनं तेन धीमता ।
व्योमेव शशिना हीनमप्च्छुष्क इव सागरः ॥ 20 ॥

बाष्पमुत्सृज्य् कंठेन स्वात्मना परमपीडितः ।
आच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः ॥ 21 ॥

तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि ।
निकृत्तमिव सालस्य स्कंधं परशुना वने ॥ 22 ॥

मत्तमातंगसंकाशं चंद्रार्कसदृशं भुवः ।
उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ 23 ॥

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।
त्वद्विधा नहि शोचंति संत स्सदसि सम्मताः ॥ 24 ॥

दानयज्ञाधिकारा हि शीलश्रुतिवचोऽनुगा ।
बुद्धिस्ते बुद्धिसंपन्न प्रभेवार्कस्य मंदिरे ॥ 25 ॥

स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।
जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ 26 ॥

अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते ।
इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् ॥ 27 ॥

तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ 28 ॥

अंब केनात्यगाद्राजा व्याघिना मय्यनागते ।
धन्या रामादयस्सर्वे यैः पिता संस्कृत स्स्वयम् ॥ 29 ॥

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
उपजिघ्रेद्धि मूर्ध्नि तात स्सन्नम्य सत्वरम् ॥ 30 ॥

क्व स पाणिस्सुखस्पर्शस्तातस्याक्लिष्टकर्मणः ।
येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ 31 ॥

यो मे भ्राता पिता बंधुर्यस्य दासोऽस्मि धीमतः ।
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥ 32 ॥

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ॥ 33 ॥

धर्मविद्धर्मनित्यश्च सत्यसंधो दृढव्रतः ।
आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः ॥ 34 ॥

पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः ।
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ 35 ॥

रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।
स महात्मा परं लोकं गतो गतिमतां वरः ॥ 36 ॥

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ 37 ॥

सिद्धार्थास्ते नरा राममागतं सह सीतया ।
लक्ष्मणं च महाबाहुं द्रक्ष्यंति पुनरागतम् ॥ 38 ॥

तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात् ।
विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ 39 ॥

क्व चेदानीं स धर्मात्मा कौसल्यानंदवर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ 40 ॥

तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे ।
मातास्य सुमहद्वाक्यं विप्रियं प्रियशंकया ॥ 41 ॥

स हि राजसुतः पुत्र चीरवासा महावनम् ।
दंडकान्सह वैदेह्या लक्ष्मणानुचरो गतः ॥ 42 ॥

तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशंकया ।
स्वस्य वंशस्य महात्म्यात्प्रष्टुं समुपचक्रमे ॥ 43 ॥

कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ 44 ॥

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ।
कस्मात्स दंडकारण्ये भ्रूणहेव विवासितः ॥ 45 ॥

अथास्य चपला माता तत्स्वकर्म यथातथम् ।
तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ 46 ॥

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनं हृष्टा मूढा पंडितमानिनी ॥ 47 ॥

न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित् कश्चिन्नाढ्यो दरिद्रो तेनापापो विहिंसितः ।
न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ॥ 48 ॥

मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।
याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ 49 ॥

स स्ववृत्तिं समास्थाय पिता ते तत्तऽथाकरोत् ।
रामश्च सह सौमित्रिः प्रेषितस्सह सीतया ॥ 50 ॥

तमपश्यन्प्रियंपुत्रं महीपालो महायशाः ।
पुत्रशोकपरिद्यूनः पंचत्वमुपपेदिवान् ॥ 51 ॥

त्वयात्विदानीं धर्मज्ञ राजत्वमवलंब्यताम् ।
त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम् ॥ 52 ॥

मा शोकं मा च संतापं धैर्यमाश्रय पुत्रक ।
त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥ 53 ॥

तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यै स्सहितो द्विजेंद्रैः ।
संकाल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्विसप्ततितमस्सर्गः ॥




Browse Related Categories: