View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.43 अरण्यकांड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

सा तं संप्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ 1 ॥

प्रहृष्टा चानवद्यांगी मृष्टहाटकवर्णिनी ।
भर्तारमपि चक्रंद लक्ष्मणं चापि सायुधम् ॥ 2 ॥

तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।
वीक्षमाणौ तु तौ देशं तदा ददृशतुर्मृगम् ॥ 3 ॥

शंकमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ 4 ॥

चरंतोमृगयां हृष्टाः पापेनोपाधिना वने ।
अनेन निहता राजन् राजानः कामरूपिणा ॥ 5 ॥

अस्य मायाविदो मायामृगरूपमिदं कृतम् ।
भानुमत्पुरुषव्याघ्र गंधर्वपुरसन्निभम् ॥ 6 ॥

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ 7 ॥

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।
उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ 8 ॥

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ 9 ॥

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः ।
मृगाश्चरंति सहिताश्चमरास्सृमरास्तथा ॥ 10 ॥

ऋक्षाः पृषतसंघाश्च वानराः किन्नरास्तथा ।
विचरंति महाबाहो रुपश्रेष्ठा मनोहराः ॥ 11 ॥

न चास्य सदृशो राजंदृष्टपूर्वो मृगो मया ।
तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः ॥ 12 ॥

नानावर्णविचित्रांगो रत्नबिंदुसमाचितः ।
द्योतयन्वनमव्यग्रं शोभते शशिसन्निभः ॥ 13 ॥

अहो रूपमहो लक्ष्मीस्स्वरसंपच्च शोभना ।
मृगोऽद्भुतो विचित्रांगो हृदयं हरतीव मे ॥ 14 ॥

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ 15 ॥

समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
अंतःपुरविभूषार्थो मृग एष भविष्यति ॥ 16 ॥

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ 17 ॥

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ 18 ॥

निहतस्यास्य सत्त्वस्य जांबूनदमयत्वचि ।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ 19 ॥

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ 20 ॥

तेन कांचनवर्णेन मणिप्रवरशृंगिणा ।
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥ 21 ॥

बभूव राघवस्यापि मनो विस्मयमागतम् ।
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् ॥ 22 ॥

लोभितस्तेन रूपेण सीतया च प्रचोदितः ।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ 23 ॥

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ 24 ॥

न वने नंदनोद्धेशे न चैत्ररथसंश्रये ।
कुतःपृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ 25 ॥

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।
शोभंते मृगमाश्रित्य चित्राः कनकबिंदवः ॥ 26 ॥

पश्यास्य जृंभमाणस्य दीप्तामग्निशिखोपमाम् ।
जिह्वां मुखान्निस्सरंतीं मेघादिव शतह्रदाम् ॥ 27 ॥

मसारगल्लर्कमुखश्शंखमुक्तानिभोदरः ।
कस्य नामाभिरूप्योऽसौ न मनो लोभयेन्मृगः ॥ 28 ॥

कस्य रूपमिदं दृष्ट्वा जांबूनद मयप्रभम् ।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ 29 ॥

मांसहेतोरपि मृगान्विनोदार्थं च धन्वनः ।
घ्नंति लक्ष्मण राजानो मृगयायां महावने ॥ 30 ॥

धनानि व्यवसायेन विचीयंते महावने ।
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ 31 ॥

तत्सारमखिलं नृणां धनं निचयवर्धनम् ।
मनसा चिंतितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ 32 ॥

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ 33 ॥

एतस्य मृगरत्नस्य परार्ध्ये कांचनत्वचि ।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ 34 ॥

न कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥ 35 ॥

एष चैव मृगश्श्रीमान् यश्च दिव्यो नभश्चरः ।
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ 36 ॥

यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण ।
मायैषा राक्षसस्येति कर्तव्योस्य वधो मया ॥ 37 ॥

एतेन हि नृशंसेन मारीचेनाकृतात्मना ।
वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ॥ 38 ॥

उत्थाय बहवो येन मृगयायां जनाधिपाः ।
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ 39 ॥

पुरस्तादिह वातापिः परिभूय तपस्विनः ।
उदरस्थो द्विजान्हंतिस्वगर्भोऽश्वतरीमिव ॥ 40 ॥

स कदाचिच्चिराल्लोभादाससाद महामुनिम् ।
अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह ॥ 41 ॥

समुत्थाने व तद्रूपं कर्तुकामं समीक्ष्य तम् ।
उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत् ॥ 42 ॥

त्वयाऽविगण्य वातापे परिभूतास्स्वतेजसा ।
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ 43 ॥

तदेवं न भवेद्रक्षोवातापिरिव लक्ष्मण ।
मद्विधं योऽतिमन्येत धर्मनित्यं जितेंद्रियम् ॥ 44 ॥

भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः ।
इह त्वं भव सन्नद्दो यंत्रितो रक्ष मैथिलीम् ॥ 45 ॥

अस्यामायत्तमस्माकं यत्कृत्यं रघुनंदन ।
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ॥ 46 ॥

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥ 47 ॥

त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ।
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ 48 ॥

यावत्पृषतमेकेन सायकेन निहन्म्यहम् ।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ 49 ॥

प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।
भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शंकितः ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: