View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.103 अयोध्याकांड - त्र्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्र्यधिकशततमस्सर्गः ।

वसिष्ठः पुरतः कृत्वा दारांदशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ 1 ॥

राजपत्न्यश्च गच्छंत्यो मंदं मंदाकिनीं प्रति ।
ददृशु स्तत्र तत् तीर्थं रामलक्ष्मणसेवितम् ॥ 2 ॥

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ 3 ॥

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः ॥ 4 ॥

इत स्सुमित्रे पुत्रस्ते सदा जलमतंद्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 5 ॥

जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः ।
भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितंं गुणैः ॥ 6 ॥

अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थ समाचारं सज्जं कर्म प्रमुंचतु ॥ 7 ॥

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिंगुदिपिण्याकं न्यस्तमायतलोचना ॥ 8 ॥

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ 9 ॥

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 10 ॥

तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 11 ॥

चतुरंतां महीं भुक्त्वा महेंद्रसदृशो विभुः ।
कथमिंगुदिपिण्याकं स भुक्ते वसुधाधिपः ॥ 12 ॥

अतो दुःखतरं लोके न किंचित्प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिंगुदिक्षोदमृद्धिमान् ॥ 13 ॥

रामेणेंगुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ 14 ॥

श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 15 ॥

एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 16 ॥

सर्वभोगैः परित्यक्तं रामं संप्रेक्ष्य मातरः ।
आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 17 ॥

तासां रामस्समुत्थाय जग्राह चरणान् शुभान् ।
मात्रूणां मनुजव्याघ्रस्सर्वासां सत्यसंगरः ॥ 18 ॥

ताः पाणिभि स्सुखस्पर्शैर्मृद्वंगुलितलै श्शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ 19 ॥

सौमित्रिरपि ता स्सर्वा मातृस्संप्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनंतरम् ॥ 20 ॥

यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ 21 ॥

सीताऽपि चरणांस्तासामुपसंगृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 22 ॥

तां परिष्वज्य दुःखार्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 23 ॥

विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने ॥ 24 ॥

पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् ।
कांचनं रजसा ध्वस्तं क्लिष्टं चंद्रमिवांबुदैः ॥ 25 ॥

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम् ।
भृशं मनसि वैदेहि व्यसनारणिसंभवः ॥ 26 ॥

ब्रुवंत्यामेवमार्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 27 ॥

पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिंद्रमिवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसस्सहैव तेनोपविवेश राघवः ॥ 28 ॥

ततो जघन्यं सहितै स्समंत्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरत स्तदाऽग्रजम् ॥ 29 ॥

उपोपविष्ट स्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलंतं भरतः कृतांजलिर्यथा महेंद्रः प्रयतः प्रजापतिम् ॥ 30 ॥

किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 31 ॥

स राघव स्सत्यधृति श्च लक्ष्मणो महानुभावो भरत श्च धार्मिकः ।
वृताः सुहृद्भि श्च विरेजुरध्वरे यथा सदस्यै स्सहितास्त्रयोऽग्नयः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्र्यधिकशततमस्सर्गः ॥




Browse Related Categories: