View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.3 सुंदरकांड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ तृतीयस्सर्गः ।

स लंबशिखरे लंबे लंबतोयदसन्निभे ।
सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः ॥ 1 ॥

निशि लंकां महासत्त्वो विवेश कपिकुंजरः ।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ 2 ॥

शारदांबुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ 3 ॥

सुपुष्टबलसंपुष्टां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पांडुरद्वारतोरणाम् ॥ 4 ॥

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ 5 ॥

मंदमारुतसंचारां यथेंद्रस्यामरावतीम् ।
शातकुंभेन महता प्राकारेणाभिसंवृताम् ॥ 6 ॥

किंकिणीजालघोषाभिः पताकाभिरलंकृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ 7 ॥

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।
जांबूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ॥ 8 ॥

वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।
तप्तहाटकनिर्यूहै राजतामलपांडुरैः ॥ 9 ॥

वैढूर्यकृतसोपानैः स्फाटिकांतरपांसुभिः ।
चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ 10 ॥

क्रौंचबर्हिणसंघुष्टैः राजहंस निषेवितैः ।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ 11 ॥

वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ 12 ॥

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।
अनुत्तमामृद्धियुतां चिंतयामास वीर्यवान् ॥ 13 ॥

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ 14 ॥

कुमुदांगदयोर्वापि सुषेणस्य महाकपेः ।
प्रसिद्धेयं भवेद्भूमिर्मैंदद्विविदयोरपि ॥ 15 ॥

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ 16 ॥

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रांतमभवत् प्रीतिमान् कपिः ॥ 17 ॥

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ।
यंत्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ 18 ॥

तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः ।
नगरीं राक्षसेंद्रस्य स ददर्श महाकपिः ॥ 19 ॥

थ सा हरिशार्दूलं प्रविशंतं महाबलम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ 20 ॥

सा तं हरिवरं दृष्ट्वा लंका रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ 21 ॥

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।
मुंचमाना महानादमब्रवीत्पवनात्मजम् ॥ 22 ॥

कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।
कथयस्वेह यत्तत्त्वं यावत्प्राणा धरंति ते ॥ 23 ॥

न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समंततः ॥ 24 ॥

अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ 25 ॥

का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि ।
किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ 26 ॥

हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ 27 ॥

अहं राक्षसराजस्य रावणस्य महात्मनः ।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ 28 ॥

न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ 29 ॥

अहं हि नगरी लंका स्वयमेव प्लवंगम ।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ 30 ॥

लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥ 31 ॥

स तां स्त्रीरूपविकृतां दृष्टवा वानरपुंगवः ।
आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ 32 ॥

द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम् ।
निर्विशंकमिमंलोकं पश्यंत्यास्तवसांप्रतम् ।
इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ 33 ॥

वनान्युपवनानीह लंकायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ 34 ॥

तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी ।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ 35 ॥

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ 36 ॥

ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ 37 ॥

ततः कृत्वा महानादं सा वै लंका भयावहम् ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ 38 ॥

ततः स कपिशार्दूलो लंकया ताडितो भृशम् ।
ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ 39 ॥

ततः संवर्तयामास वामहस्तस्य सोऽंगुलीः ।
मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः ॥ 40 ॥

स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।
सा तु तेन प्रहारेण विह्वलांगी निशाचरी ॥ 41 ॥

पपात सहसा भूमौ विकृताननदर्शना ।
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ 42 ॥

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।
ततो वै भृशसंविग्ना लंका सा गद्गदाक्षरम् ॥ 43 ॥

उवाचागर्वितं वाक्यं हनूमंतं प्लवंगमम् ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ 44 ॥

समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः ।
अहं तु नगरी लंका स्वयमेव प्लवंगम ॥ 45 ॥

निर्जिताहं त्वया वीर विक्रमेण महाबल ।
इदं तु तथ्यं शृणु वै ब्रुवंत्या मे हरीश्वर ॥ 46 ॥

स्वयंभुवा पुरा दत्तं वरदानं यथा मम ।
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ 47 ॥

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ।
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ 48 ॥

स्वयंभू विहितः सत्यो न तस्यास्ति व्यतिक्रमः ।
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ 49 ॥

रक्षसां चैव सर्वेषां विनाशः समुपागतः ।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ 50 ॥

विधत्स्व सर्वकार्याणि यानि यानीह वांछसि ।
प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम् ।
यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे तृतीयस्सर्गः ॥




Browse Related Categories: