View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.21 अरण्यकांड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकविंशस्सर्गः ।

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ 1 ॥

मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ 2 ॥

भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।
हन्यमाना न हन्यंते न न कुर्युर्वचो मम ॥ 3 ॥

किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः ।
हा नाथेति विनर्दंती सर्पवल्लुठसि क्षितौ ॥ 4 ॥

अनाथवद्विलपसि नाथे तु मयि संस्थिते ।
उत्तिष्ठोत्तिष्ठ माभैषीर्वैक्लव्यं त्यज्यतामिह ॥ 5 ॥

इत्येवमुक्ता दुर्धर्षा खरेण परिसांत्विता ।
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥ 6 ॥

अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसांत्विता ॥ 7 ॥

प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश ।
निहंतुं राघवं क्रोधान्मत्प्रियार्थं सलक्षणम् ॥ 8 ॥

ते तु रामेण सामर्षाः शूलपट्टसपाणयः ।
समरे निहतास्सर्वे सायकैर्मर्मभेदिभिः ॥ 9 ॥

तांदृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान् ।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ॥ 10 ॥

अहमस्मि समुद्विग्ना विषण्णा च निशाचर ।
शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ॥ 11 ॥

विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ 12 ॥

एते च निहता भूमौ रामेण निशितैः शरैः ।
येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ 13 ॥

मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु च ।
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ॥ 14 ॥

दंडकारण्यनिलयं जहि राक्षसकंटकम् ।
यदि रामं ममामित्रं न त्वमद्यवधिष्यसि ॥ 15 ॥

तवैव चाग्रतः प्राणांस्त्यक्षामि निरपत्रप ।
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ॥ 16 ॥

स्थातुं प्रतिमुखे शक्तस्सबलश्च महात्मनः ।
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ॥ 17 ॥

मानुषौ यो न शक्नोषि हंतुं तौ रामलक्ष्मणौ ।
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ॥ 18 ॥

दंडकारण्यनिलयं जहि तं कुलपांसन ।
निस्सत्वस्याल्प वीर्यस्य वासस्ते कीदृशस्त्विह ॥ 19 ॥

अपयाहि जनस्थानातत्वरितस्सहबांधवः ।
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ॥ 20 ॥

स हि तेजस्समायुक्तो रामो दशरथात्मजः ।
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ 21 ॥

एवं विलप्य बहुशो राक्षसी विततोदरी ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकविंशस्सर्गः ॥




Browse Related Categories: