View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.20 अयोध्याकांड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ विंशस्सर्गः ।

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृतांजलौ ।
आर्तशब्दो महान् जज्ञे स्त्रीणामंतःपुरे तदा ॥ 1 ॥

कृत्येष्वचोदितः पित्रा सर्वस्यांतःपुरस्य च ।
गतिर्यश्शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ 2 ॥

कौशल्यायां यथा युक्तो जनन्यां वर्तते सदा ।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ 3 ॥

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान्प्रसादयन्सर्वान् स इतोऽद्य प्रवत्स्यति ॥ 4 ॥

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् ।
यो गतिं सर्वभूतानां परित्यजति राघवम् ॥ 5 ॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ॥ 6 ॥

स हि चांतःपुरे घोरमार्तशब्दं महीपतिः ।
पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयताऽसने ॥ 7 ॥

रामस्तु भृशमायस्तो निश्श्वसन्निव कुंजरः ।
जगाम सहितो भ्रात्रा मातुरंतःपुरं वशी ॥ 8 ॥

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् ॥ 9 ॥

दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः ।
जयेन जयतां श्रेष्ठं वर्धयंति स्म राघवम् ॥ 10 ॥

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाऽभिसत्कृतान् ॥ 11 ॥

प्रणम्य रामस्तान्विप्रांस्तृतीयायां ददर्श सः ।
स्त्रियो वृद्धास्तथा बाला द्वाररक्षणतत्पराः ॥ 12 ॥

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
न्यवेदयंत त्वरिता राममातुः प्रियं तदा ॥ 13 ॥

कौशल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।
प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ 14 ॥

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
अग्निं जुहोति स्म तदा मंत्रवत्कृतमंगला ॥ 15 ॥

प्रविश्य च तदा रामो मातुरंतःपुरं शुभम् ।
ददर्श मातरं तत्र हावयंतीं हुताशनम् ॥ 16 ॥

देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ।
दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा ॥ 17 ॥

लाजान्माल्यानि शुक्लानि पायसं कृसरं तथा ।
समिधः पूर्णकुंभांश्च ददर्श रघुनंदनः ॥ 18 ॥

तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।
तर्पयंतीं ददर्शाद्भिर्देवतां देववर्णिनीम् ॥ 19 ॥

सा चिरस्यात्मजं दृष्ट्वा मातृनंदनमागतम् ।
अभिचक्राम संहृष्टा किशोरं बडबा यथा ॥ 20 ॥

स मातरमभिक्रांतामुपसंगृह्य राघवः ।
परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ 21 ॥

तमुवाच दुराधर्षं राघवं सुतमात्मनः ।
कौशल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ 22 ॥

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ 23 ॥

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ 24 ॥

दत्तमासनमालभ्य भोजनेन निमंत्रितः ।
मातरं राघवः किंचिद्व्रीडात्प्रसार्यांजलिमब्रवीत् ॥ 25 ॥

स स्वभावविनीतश्च गौरवाच्च तदा नतः ।
प्रस्थितो दंडकारण्यमाप्रष्टुमुपचक्रमे ॥ 26 ॥

देवि नूनं न जानीषे महद्भयमुपस्थितम् ।
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ 27 ॥

गमिष्ये दंडकारण्यं किमनेनासनेन मे ।
विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ 28 ॥

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ॥ 29 ॥

भरताय महाराजो यौवराज्यं प्रयच्छति ।
मां पुनर्दंडकारण्ये विवासयति तापसम् ॥ 30 ॥

स षट्चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ 31 ॥

सा निकृत्तेव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ 32 ॥

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ 33 ॥

उपावृत्त्योत्थितां दीनां बडबामिव वाहिताम् ।
पांसुकुंठितसर्वांगीं विममर्श च पाणिना ॥ 34 ॥

सा राघवमुपासीनमसुखार्ता सुखोचिता ।
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ 35 ॥

यदि पुत्र न जायेथा मम शोकाय राघव ।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ 36 ॥

एक एव हि वंध्याया श्शोको भवति मानसः ।
अप्रजाऽस्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ 37 ॥

न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।
अपि पुत्रे ऽपि पश्येयमिति रामाऽस्थितं मया ॥ 38 ॥

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ 39 ॥

अतो दुःखतरं किं नु प्रमदानां भविष्यति ।
मम शोको विलापश्च यादृशोऽयमनंतकः ॥ 40 ॥

त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।
किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ 41 ॥

अत्यंतनिगृहीतास्मि भर्तुर्नित्यमतंत्रिता ।
परिवारेण कैकेय्या स्समा वाप्यथवाऽवरा ॥ 42 ॥

योऽहि मां सेवते कश्चिदथवाप्यनुवर्तते ।
कैकेय्याः पुत्रमन्वीक्ष्य स्वश्चि जनो नाभिभाषते ॥ 43 ॥

नित्यक्रोधतया तस्याः कथं नु खरवादितत् ।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ 44 ॥

दश सप्त च वर्षाणि जातस्य तव राघव अतितानि प्रकांक्षंत्या मया दुःखपरिक्षयम् ॥ 45 ॥

तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम् ।
विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव ॥ 46 ॥

अपश्यंती तव मुखं परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥ 47 ॥

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ 48 ॥

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।
प्रावृषीव महानद्या स्पृष्टं कूलं नवांभसा ॥ 49 ॥

ममैव नूनं मरणं न विद्यते न चावकाऽशोस्ति यमक्षयेऽमम ।
यदंतकोऽद्यैव न मां जिहीर्षति ।
प्रसह्य सिंहो रुदतीं मृगीमिव ॥ 50 ॥

स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।
अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ 51 ॥

इदं हि दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि ।
तपश्च तप्तं यदपत्यकारणा त्सुनिष्फलं बीजमिवोप्तमूषरे ॥ 52 ॥

यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ।
गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ 53 ॥

अथापि किं जीवितमद्य मे वृथा त्वया विना चंद्रनिभाननप्रभ ।
अनुव्रजिष्यामि वनं त्वयैव गौ स्सुदुर्बला वत्समिवानुकांक्षया ॥ 54 ॥

भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।
व्यसनमुपनिशम्य सा मह त्सुतमिव बद्धमवेक्ष्य किन्नरी ॥ 55 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे विंशस्सर्गः ॥




Browse Related Categories: