View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.39 किष्किंधाकांड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।
बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥ 1 ॥

यदिंद्रो वर्षते वर्षं न तच्चित्रं भवेत्क्वचित् ।
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ 2 ॥

चंद्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।
त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परंतप ॥ 3 ॥

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ 4 ॥

त्वत्सनाथः सखे संख्ये जेताऽस्मि सकलानरीन् ।
त्वमेव मे सुहृतन्मित्रं साहाय्यं कर्तुमर्हसि ॥ 5 ॥

जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।
वंचयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥ 6 ॥

न चिरात्तं हनिष्यामि रावणं निशितैश्शरैः ।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवाऽहवे ॥ 7 ॥

एतस्मिन्नंतरे चैव रजस्समभिवर्तत ।
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ 8 ॥

दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छता ।
चचाल च मही सर्वा सशैलवनकानना ॥ 9 ॥

ततो नगेंद्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः ।
कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ॥ 10 ॥

निमेषांतरमात्रेण ततस्तैर्हरियूथपैः ।
कोटीशतपरीवारैः कामरूपिभिरावृता ॥ 11 ॥

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।
हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ 12 ॥

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ 13 ॥

कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा ।
वीरश्शतवलिर्नाम वानरः प्रत्यदृश्यत ॥ 14 ॥

ततः कांचनशैलाभस्ताराया वीर्यवान्पिता ।
अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ 15 ॥

तथाऽपरेण कोटीनां सहस्रेण समन्वितः ।
पिता रुमाया संप्राप्तस्सुग्रीवश्वशुरो विभुः ॥ 16 ॥

पद्मकेसरसंकाशस्तरुणार्कनिभाननः ।
बुद्धिमान्वानरश्रेष्ठस्सर्ववानरसत्तमः ॥ 17 ॥

अनेकैर्बहुसाहस्रैर्वानराणां समन्वितः ।
पिता हनुमतश्रशीमान्केसरी प्रत्यदृश्यत ॥ 18 ॥

गोलांगूलमहाराजो गवाक्षो भीमविक्रमः ।
वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ 19 ॥

ऋक्षाणां भीमवेगानां धूम्रश्शत्रुनिबर्हणः ।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ 20 ॥

महाचलनिभैर्घोरैः पनसो नाम यूथपः ।
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ 21 ॥

नीलांजनचयाकारो नीलो नामाऽथ यूथपः ।
अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ 22 ॥

ततः कांचनशैलाभो गवयो नाम यूथपः ।
आजगाम महावीर्यः पंचभिः कोटिभिर्वृतः ॥ 23 ॥

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा ।
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ 24 ॥

मैंदश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ ।
कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ 25 ॥

गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः ।
आजगाम महातेजा सुग्रीवस्य समीपतः ॥ 26 ॥

ऋक्षराजो महातेजा जांबवान्नाम नामतः ।
कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ 27 ॥

रुमण्वान्नाम विक्रांतो वानरो वानरेश्वरम् ।
आययौ बलवांस्तूर्णं कोटीशतसमावृतः ॥ 28 ॥

ततः कोटिसहस्राणां सहस्रेण शतेन च ।
पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गंधमादनः ॥ 29 ॥

ततः पद्मसहस्रेण वृतश्शंकुशतेन च ।
युवराजोऽंगदः प्राप्तः पितृतुल्यपराक्रमः ॥ 30 ॥

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।
पंचभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ 31 ॥

इंद्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ।
एकादशानां कोटीनामीश्वरस्तैस्समावृतः ॥ 32 ॥

ततो रंभस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ।
अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ 33 ॥

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।
प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली ॥ 34 ॥

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।
वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत ॥ 35 ॥

नलश्चापि महावीर्यस्संवृतो द्रुमवासिभिः ।
कोटीशतेन संप्राप्तस्सहस्रेण शतेन च ॥ 36 ॥

ततो दधिमुखश्रीमान्कोटिभिर्दशभिर्वृतः ।
संप्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः ॥ 37 ॥

शरभः कुमुदो वह्निर्वानरो रंह एव च ।
एते चान्ये च बहवो वानराः कामरूपिणः ॥ 38 ॥

आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ।
यूथपा स्समनुप्राप्ता स्तेषां संख्या न विद्यते ॥ 39 ॥

आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ।
आप्लवंतः प्लवंतश्च गर्जंतश्च प्लवंगमाः ।
अभ्यवर्तंत सुग्रीवं सूर्यमभ्रगणा इव ॥ 40 ॥

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः ।
शिरोभिर्वानरेंद्राय सुग्रीवाय न्यवेदयन् ॥ 41 ॥

अपरे वानरश्रेष्ठास्संगम्य च यथोचितम् ।
सुग्रीवेण समागम्य स्थिताः प्रांजलय स्तदा ॥ 42 ॥

सुग्रीवस्त्वरितो रामे सर्वांस्तां वानररर्षभान् ।
निवेदयित्वा धर्मज्ञः स्थितः प्रांजलिरब्रवीत् ॥ 43 ॥

यथासुखं पर्वतनिझरेषु वनेषु सर्वेषु च वानरेंद्राः ।
निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: