View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.34 अयोध्याकांड - चतुस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।

ततः कमलपत्राक्षः श्यामो निरुपमो महान् ।
उवाच राम स्तं सूतं पितुराख्याहि मामिति ॥ 1 ॥

स रामप्रेषितः क्षिप्रं संतापकलुषेंद्रियः ।
प्रविश्य नृपतिं सूतो निश्वसंतं ददर्श ह ॥ 2 ॥

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ 3 ॥

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् ।
राममेवानुशोचंतं सूतः प्रांजलिरासदत् ॥ 4 ॥

तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा ।
भयविक्लबया वाचा मंदया श्लक्ष्णमब्रवीत् ॥ 5 ॥

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनं दत्वा सर्वंचैवोपजीविनाम् ॥ 6 ॥

गमिष्यति महारण्यं तं पश्य जगतीपते ।
वृतं राजगुणै स्सर्वैरादित्यमिव रश्मिभिः ॥ 7 ॥

स सत्यवादी धर्मात्मा गांभीर्यात्सागरोपमः ।
आकाश इव निष्पंको नरेंद्रः प्रत्युवाच तम् ॥ 8 ॥

सुमंंत्रानय मे दारान् ये केचिदिह मामकाः ।
दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ 9 ॥

सोऽंतःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।
आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ 10 ॥

एवमुक्ताः स्त्रिय स्सर्वाः सुमंत्रेण नृपाज्ञया ।
प्रचक्रमु स्तद्भवनं भर्तुराज्ञाय शासनम् ॥ 11 ॥

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ 12 ॥

आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
उवाच राजा तं सूतं सुमंत्राऽनय मे सुतम् ॥ 13 ॥

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ 14 ॥

स राजा पुत्रमायांतं दृष्ट्वा दूरात्कृतांजलिम् ।
उत्पपातासनात्तूर्णमार्त स्त्रीजनसंवृतः ॥ 15 ॥

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः ।
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥ 16 ॥

तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः ।
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ 17 ॥

स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।
हा हा रामेति सहसा भूषणध्वनिमूर्छितः ॥ 18 ॥

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।
पर्यंंके सीतया सार्धं रुदंतः समवेशयन् ॥ 19 ॥

अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।
उवाच प्रांजलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ 20 ॥

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।
प्रस्थितं दंडकारण्यं पश्य त्वं कुशलेन माम् ॥ 21 ॥

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।
कारणैर्बहुभि स्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ 22 ॥

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।
लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ 23 ॥

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।
उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ 24 ॥

अहं राघव कैकेय्या वरदानेन मोहितः ।
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ 25 ॥

एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
प्रत्युवाचांजलिं कृत्वा पितरं वाक्यकोविदः ॥ 26 ॥

भवान्वर्ष सहस्राय पृथिव्या नृपते पतिः ।
अहं त्वरण्येवत्स्यामि न मे कार्यं त्वयाऽनृतम् ॥ 27 ॥

नव पंच च वर्षाणि वनवासे विहृत्य ते ।
पुनःपादौ ग्रहीष्यामि प्रतिज्ञांते नराधिप ॥ 28 ॥

रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः ।
कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ 29 ॥

श्रेयसे वृद्धये तात पुनरागमनाय च ।
गच्छस्वारिष्टमव्यग्रः पंथानमकुतोभयम् ॥ 30 ॥

न हि सत्यात्मनस्तात धर्माभिमनस स्तव ।
विनिवर्तयितुं बुद्धिः शक्यते रघुनंदन ॥ 31 ॥

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।
एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ 32 ॥

मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् ।
तर्पित स्सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ 33 ॥

दुष्करं क्रियते पुत्र सर्वथा राघव त्वया ।
मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ 34 ॥

न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।
छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ॥ 35 ॥

वंचना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ 36 ॥

न चैतदाश्चर्यतमं यत्तज्येष्ठस्सुतो मम ।
अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ 37 ॥

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ 38 ॥

प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान् प्रदास्यति ।
अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ 39 ॥

इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ 40 ॥

वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥ 41 ॥

दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ।
अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ 42 ॥

चतुर्दश समा वत्स्ये वने वनचरैस्सह ।
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ 43 ॥

न हि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् ।
यथानिदेशं कर्तुं वै तवैव रघुनंदन ॥ 44 ॥

अपगच्छतु ते दुःखं माभूर्बाष्पपरिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ 45 ॥

नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम् ।
नैव सर्वानिमान् कामा न्नस्वर्गं नैव जीवितम् ॥ 46 ॥

त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ।
प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ 47 ॥

न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ।
स शोकं धारयस्वेमं न हि मेऽस्ति विपर्ययः ॥ 48 ॥

अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव ।
मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ 49 ॥

मा चोत्कंठां कृथा देव वने रंस्यामहे वयम् ।
प्रशांतहरिणाकीर्णे नानाशकुनिनादिते ॥ 50 ॥

पिता हि दैवतं तात देवतानामपि स्मृतम् ।
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ 51 ॥

चतुर्दशसु वर्षेषु गतेषु नरसत्तम ।
पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम् ॥ 52 ॥

येन संस्तंभनीयोऽयं सर्वो बाष्पगलो जनः ।
स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ 53 ॥

पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम् ।
अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ॥ 54 ॥

मया निसृष्टां भरतो महीमिमां सशैलषंडां सपुरां सकाननाम् ।
शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ 55 ॥

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनःप्रिये ।
यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ 56 ॥

तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् ।
न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥ 57 ॥

फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन् सरितस्सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ 58 ॥

एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः ।
आलिंग्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंंचित् ॥ 59 ॥

देव्यस्तत स्संरुरुदुस्समेता स्तां वर्जयित्वा नरदेवपत्नीम् ।
रुदन् सुमंत्रोऽऽपि जगाम मूर्छां हाहाकृतं तत्र बभूव सर्वम् ॥ 60 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुस्त्रिंशस्सर्गः ॥




Browse Related Categories: