View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.76 बालकांड - षट्सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षट्सप्ततितमस्सर्गः ।

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
गौरवाद्यंंत्रितकथः पितू राममथाब्रवीत् ॥ 1 ॥

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।
अनुरुंध्यामहे ब्रह्मन् पितुरानृण्यमास्थितम् ॥ 2 ॥

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ 3 ॥

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ 4 ॥

आरोप्य स धनू राम श्शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ 5 ॥

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ 6 ॥

इमां पादगतिं राम तपोबलसमार्जिताम् ।
लोकानप्रतिमान्वा ते हनिष्यामि यदिच्छसि ॥ 7 ॥

न ह्ययं वैष्णवो दिव्य श्शरः परपुरंजयः ।
मोघः पतति वीर्येण बलदर्पविनाशनः ॥ 8 ॥

वरायुधधरं रामं द्रष्टुं सर्षिगणा स्सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र संघशः ॥ 9 ॥

गंधर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ 10 ॥

जडीकृते तदाऽलोके रामे वरधनुर्धरे ।
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥ 11 ॥

तेजोभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।
रामं कमलपत्राक्षं मंदं मंदमुवाच ह ॥ 12 ॥

काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा ।
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥ 13 ॥

सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ 14 ॥

तदिमां त्वं गतिं वीर हंतुं नार्हसि राघव ।
मनोजवं गमिष्यामि महेंद्रं पर्वतोत्तमम् ॥ 15 ॥

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि तान् शरमुख्येन मा भूत्कालस्य पर्ययः ॥ 16 ॥

अक्षय्यं मधुहंतारं जानामि त्वां सुरेश्वरम् ।
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ 17 ॥

एते सुरगणास्सर्वे निरीक्षंते समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वंद्वमाहवे ॥ 18 ॥

न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ 19 ॥

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।
शरमोक्षे गमिष्यामि महेंद्रं पर्वतोत्तमम् ॥ 20 ॥

तथा ब्रुवति रामे तु जामदग्नये प्रतापवान् ।
रामो दाशरथि श्श्रीमान् चिक्षेप शरमुत्तमम् ॥ 21 ॥

स हतान् दृश्य रामेण स्वांल्लोकांस्तपसार्जितान् ।
जामदग्न्यो जगामाशु महेंद्रं पर्वतोत्तमम् ॥ 22 ॥

ततो वितिमिरास्सर्वा दिशश्चोपदिशस्तथा ।
सुरा स्सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ 23 ॥

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणी कृत्य जगामात्मगतिं प्रभुः ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षट्सप्ततितमस्सर्गः ॥




Browse Related Categories: