View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.8 सुंदरकांड - अष्टम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टमस्सर्गः ।

स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् ।
प्रतप्तजांबूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ॥ 1 ॥

तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ।
दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥ 2 ॥

न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्हरत्नवत् ।
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥ 3 ॥

तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम् ।
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ 4 ॥

विशेषमालंब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमंडितम् ।
मनोऽभिरामं शरदिंदुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ 5 ॥

वहंति यं कुंडलशोभिताननाः महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचनाः महाजवा भूतगणाः सहस्रशः ॥ 6 ॥

वसंतपुष्पोत्करचारुदर्शनं वसंतमासादपि कांतदर्शनम् ।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ 7 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टमस्सर्गः ॥




Browse Related Categories: