View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.47 अरण्यकांड - सप्तचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।

रावणेन तु वैदेही तदा पृष्टा जिहीर्षता ।
परिव्राजकरूपेण शशंसात्मानमात्मना ॥ 1 ॥

ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ 2 ॥

दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥ 3 ॥

उषित्वा द्वादश समा इक्ष्वाकुणां निवेशने ।
भुंजाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ 4 ॥

ततस्त्रयोदशे वर्षे राजामंत्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमंत्रिभिः ॥ 5 ॥

तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ 6 ॥

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥ 7 ॥

द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ।
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येच कथंचन ॥ 8 ॥

एष मे जीवितस्यांतो रामो यद्यभिषिच्यते ।
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥ 9 ॥

अयाचतार्थैरन्वर्थैर्न च यांचां चकार सा ।
मम भर्तामहातेजा वयसा पंचविंशकः ॥ 10 ॥

अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।
रामेति प्रथितो लोके गुणवान्सत्यवान्शुचिः ॥ 11 ॥

विशालाक्षो महाबाहुस्सर्वभूतहिते रतः ।
कामार्तस्तु महातेजाः पिता दशरथस्स्वयम् ॥ 12 ॥

कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुस्समीपं राममागतम् ॥ 13 ॥

कैकेयी मम भर्तारमित्युवाच धृतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥ 14 ॥

भरताय प्रदातव्यमिदं राज्यमकंटकम् ।
त्वया हि खलु वस्तव्यं नव वर्षाणि पंच च ॥ 15 ॥

वने प्रव्रज काकुत्स्थ पितरं मोचयानृतान् ।
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥ 16 ॥

चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ।
दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम् ॥ 17 ॥

एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम् ।
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥ 18 ॥

रामस्य पुरुषव्याघ्रस्सहायस्समरेरिहा ।
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ॥ 19 ॥

अन्वगच्छद्दनुष्पाणिः प्रव्रजंतं मया सह ।
जटी तापसरूपेण मया सह सहानुजः ॥ 20 ॥

प्रविष्टो दंडकारण्यं धर्मनित्यो जितेंद्रियः ।
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ॥ 21 ॥

विचरामो द्विजश्रेष्ठ वनं गंभीरमोजसा ।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ 22 ॥

आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ।
रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून् ॥ 23 ॥

स त्वं नाम च गोत्रंच कुलं चाचक्ष्व तत्त्वतः ।
एकश्च दंडकारण्ये किमर्थं चरसि द्विज ॥ 24 ॥

एवं बृवंत्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ 25 ॥

येन वित्रासिता लोकास्सदेवासुरपन्नगाः ।
अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥ 26 ॥

त्वां तु कांचनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिंदिते ॥ 27 ॥

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 28 ॥

लंकानाम समुद्रस्य मम मध्ये महापुरी ।
सागरेण परिक्षिस्ता निविष्टा नगमूर्धनि ॥ 29 ॥

तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ 30 ॥

पंच दास्यस्सहस्राणि सर्वाभरणभूषिताः ।
सीते परिचरिष्यंति भार्या भवसि मे यदि ॥ 31 ॥

रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्यांगी तमनादृत्य राक्षसम् ॥ 32 ॥

महागिरिमिवाकंप्यं महेंद्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ 33 ॥

सर्वलक्षणसंपन्नं न्यग्रोधपरिमंडलम् ।
सत्यसंधं महाभागमहं राममनुव्रता ॥ 34 ॥

महाबाहुं महोरस्कं सिंहविक्रांतगामिनम् ।
नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ 35 ॥

पूर्णचंद्राननं रामं राजवत्सं जितेंद्रियम् ।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ 36 ॥

त्वं पुनर्जंबुकस्सिंहीं मामिच्छसि सुदुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ 37 ॥

पादपान्कांचनान्नूनं बहून्पश्यसि मंदभाक् ।
राघपस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ 38 ॥

क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः ।
आशीविषस्य मुखाद्दंष्ट्रामादातुमिच्छसि ॥ 39 ॥

मंदरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।
कालकूटं विषं पीत्वा स्वस्तिमान्गंतुमिच्छसि ॥ 40 ॥

अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।
राघवस्य प्रियां भार्यां योऽधिगंतुं त्वमिच्छसि ॥ 41 ॥

अवसज्य शिलां कंठे समुद्रं तर्तुमिच्छसि ।
सूर्याचंद्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ 42 ॥

यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥ 43 ॥

काल्याणवृत्तां रामस्य यो भार्यांहर्तुमिच्छसि ।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ॥ 44 ॥

रामस्य सदृशीं भार्यां योऽधिगंतुं त्वमिच्छसि ।
यदंतरं सिंहशृगालयोर्वने यदंतरं स्यंदिनिका समुद्रयोः ।
सुराग्र्य सौवीरकयोर्यदंतरं तदंतरं वै तव राघवस्य च ॥ 45 ॥

यदंतरं कांचनसीसलोहयोर्यदंतरं चंदनवारिपंकयोः ।
यदंतरं हस्तिबिडालयोर्वने तदंतरं दाशरथेस्तवैव च ॥ 46 ॥

यदंतरं वायसवैनतेययोर्यदंतरं मद्गुमयूरयोरपि ।
यदंतरं सारसगृध्रयोर्वने तदंतरं दाशरथेस्तवैव च ॥ 47 ॥

तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृतापि तेहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ 48 ॥

इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकंपाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ 49 ॥

तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तचत्वारिंशस्सर्गः ॥




Browse Related Categories: