श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।
रावणेन तु वैदेही तदा पृष्टा जिहीर्षता ।
परिव्राजकरूपेण शशंसात्मानमात्मना ॥ 1 ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ 2 ॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥ 3 ॥
उषित्वा द्वादश समा इक्ष्वाकुणां निवेशने ।
भुंजाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ 4 ॥
ततस्त्रयोदशे वर्षे राजामंत्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमंत्रिभिः ॥ 5 ॥
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ 6 ॥
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥ 7 ॥
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ।
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येच कथंचन ॥ 8 ॥
एष मे जीवितस्यांतो रामो यद्यभिषिच्यते ।
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥ 9 ॥
अयाचतार्थैरन्वर्थैर्न च यांचां चकार सा ।
मम भर्तामहातेजा वयसा पंचविंशकः ॥ 10 ॥
अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।
रामेति प्रथितो लोके गुणवान्सत्यवान्शुचिः ॥ 11 ॥
विशालाक्षो महाबाहुस्सर्वभूतहिते रतः ।
कामार्तस्तु महातेजाः पिता दशरथस्स्वयम् ॥ 12 ॥
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुस्समीपं राममागतम् ॥ 13 ॥
कैकेयी मम भर्तारमित्युवाच धृतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥ 14 ॥
भरताय प्रदातव्यमिदं राज्यमकंटकम् ।
त्वया हि खलु वस्तव्यं नव वर्षाणि पंच च ॥ 15 ॥
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतान् ।
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥ 16 ॥
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ।
दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम् ॥ 17 ॥
एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम् ।
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥ 18 ॥
रामस्य पुरुषव्याघ्रस्सहायस्समरेरिहा ।
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ॥ 19 ॥
अन्वगच्छद्दनुष्पाणिः प्रव्रजंतं मया सह ।
जटी तापसरूपेण मया सह सहानुजः ॥ 20 ॥
प्रविष्टो दंडकारण्यं धर्मनित्यो जितेंद्रियः ।
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ॥ 21 ॥
विचरामो द्विजश्रेष्ठ वनं गंभीरमोजसा ।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ 22 ॥
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ।
रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून् ॥ 23 ॥
स त्वं नाम च गोत्रंच कुलं चाचक्ष्व तत्त्वतः ।
एकश्च दंडकारण्ये किमर्थं चरसि द्विज ॥ 24 ॥
एवं बृवंत्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ 25 ॥
येन वित्रासिता लोकास्सदेवासुरपन्नगाः ।
अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥ 26 ॥
त्वां तु कांचनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिंदिते ॥ 27 ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 28 ॥
लंकानाम समुद्रस्य मम मध्ये महापुरी ।
सागरेण परिक्षिस्ता निविष्टा नगमूर्धनि ॥ 29 ॥
तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ 30 ॥
पंच दास्यस्सहस्राणि सर्वाभरणभूषिताः ।
सीते परिचरिष्यंति भार्या भवसि मे यदि ॥ 31 ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्यांगी तमनादृत्य राक्षसम् ॥ 32 ॥
महागिरिमिवाकंप्यं महेंद्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ 33 ॥
सर्वलक्षणसंपन्नं न्यग्रोधपरिमंडलम् ।
सत्यसंधं महाभागमहं राममनुव्रता ॥ 34 ॥
महाबाहुं महोरस्कं सिंहविक्रांतगामिनम् ।
नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ 35 ॥
पूर्णचंद्राननं रामं राजवत्सं जितेंद्रियम् ।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ 36 ॥
त्वं पुनर्जंबुकस्सिंहीं मामिच्छसि सुदुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ 37 ॥
पादपान्कांचनान्नूनं बहून्पश्यसि मंदभाक् ।
राघपस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ 38 ॥
क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः ।
आशीविषस्य मुखाद्दंष्ट्रामादातुमिच्छसि ॥ 39 ॥
मंदरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।
कालकूटं विषं पीत्वा स्वस्तिमान्गंतुमिच्छसि ॥ 40 ॥
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।
राघवस्य प्रियां भार्यां योऽधिगंतुं त्वमिच्छसि ॥ 41 ॥
अवसज्य शिलां कंठे समुद्रं तर्तुमिच्छसि ।
सूर्याचंद्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ 42 ॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥ 43 ॥
काल्याणवृत्तां रामस्य यो भार्यांहर्तुमिच्छसि ।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ॥ 44 ॥
रामस्य सदृशीं भार्यां योऽधिगंतुं त्वमिच्छसि ।
यदंतरं सिंहशृगालयोर्वने यदंतरं स्यंदिनिका समुद्रयोः ।
सुराग्र्य सौवीरकयोर्यदंतरं तदंतरं वै तव राघवस्य च ॥ 45 ॥
यदंतरं कांचनसीसलोहयोर्यदंतरं चंदनवारिपंकयोः ।
यदंतरं हस्तिबिडालयोर्वने तदंतरं दाशरथेस्तवैव च ॥ 46 ॥
यदंतरं वायसवैनतेययोर्यदंतरं मद्गुमयूरयोरपि ।
यदंतरं सारसगृध्रयोर्वने तदंतरं दाशरथेस्तवैव च ॥ 47 ॥
तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृतापि तेहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ 48 ॥
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकंपाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ 49 ॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तचत्वारिंशस्सर्गः ॥