View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.40 अयोध्याकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चत्वारिंशस्सर्गः ।

अथ रामश्च सीता च लक्ष्मणश्च कृतांजलिः ।
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ 1 ॥

तं चापि समनुज्ञाप्य धर्मज्ञस्सीतया सह ।
राघव श्शोकसम्मूढो जननीमभ्यवादयत् ॥ 2 ॥

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यां अभ्यवादयत् ।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ 3 ॥

तं वंदमानं रुदती माता सौमित्रिमब्रवीत् ।
हितकामा महाबाहुं मूध्नर्युपाघ्राय लक्ष्मणम् ॥ 4 ॥

सृष्टस्त्वं वनवासाय स्वनुरक्तस्सुहृज्जने ।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ 5 ॥

व्यसनी वा समृद्धो वा गतिरेष तवानघ ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ 6 ॥

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ 7 ॥

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् ।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ 8 ॥

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
अयोध्यामटवीं विध्दि गच्छ तात यथासुखम् ॥ 9 ॥

ततः सुमंत्रः काकुत्स्थं प्रांजलिर्वाक्यमब्रवीत् ।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ 10 ॥

ररथमारोह भद्रं ते राजपुत्र महायशः ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ 11 ॥

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तान्युपक्रमितव्यानि यानि देव्यासि चोदितः ॥ 12 ॥

तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा ।
आरुरोह वरारोहा कृत्वालंकारमात्मनः ॥ 13 ॥

अथो ज्वलनसंकाशं चामीकरविभूषितम् ।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ 14 ॥

वनवासं हि संख्याय वासांस्याभरणानि च ।
भर्तारमनुगच्छंत्यै सीतायै श्वशुरो ददौ ॥ 15 ॥

तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ 16 ॥

सीतातृतीयानारूढान् दृष्ट्वा दृष्टमचोदयत् ।
सुमंत्रस्सम्मतानश्वान् वायुवेगसमान्जवे ॥ 17 ॥

प्रतियाते महारण्यं चिररात्राय राघवे ।
बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥ 18 ॥

तत्समाकुलसंभ्रांतं मत्तसंकुपितद्विपम् ।
हयशिंजितनिर्घोषं पुरमासीन्महास्वनम् ॥ 19 ॥

तत स्सबालवृद्धा सा पुरी परमपीडिता ।
राममेवाभिदुद्राव घर्मार्ता सलिलं यथा ॥ 20 ॥

पार्श्वतः पृष्ठतश्चापि लंबमानास्तदुन्मुखाः ।
बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः ॥ 21 ॥

संयच्छ वाजिनां रश्मीन् सूत याहि शनैश्शनैः ।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ 22 ॥

आयसं हृदयं नूनं राममातुरसंशयम् ।
यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ 23 ॥

कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ 24 ॥

अहो लक्ष्मण सिद्धार्थ स्सततं प्रियवादिनम् ।
भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ 25 ॥

महत्येषा हि ते सिध्दिरेष चाभ्युदयो महान् ।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ 26 ॥

एवं वदंतस्ते सोढुं न शेकुर्बाष्पमागतम् ।
नरास्तमनुगच्छंतः प्रियमिक्ष्वाकुनंदनम् ॥ 27 ॥

अथ राजा वृत स्त्रीभिर्दीनाभिर्दीनचेतनः ।
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ 28 ॥

शुश्रुवे चाग्रतः स्त्रीणां रुदंतीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुंजरे ॥ 29 ॥

पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत् ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ 30 ॥

स च श्रीमानचिंत्यात्मा रामो दशरथात्मजः ।
सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ 31 ॥

रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।
उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ 32 ॥

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
पतितैरभ्यवहितं प्रशशाम महीरजः ॥ 33 ॥

रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् ।
प्रयाणे राघवस्यासीत्पुरं परमपीडितम् ॥ 34 ॥

सुस्राव नयनैः स्त्रीणामस्रमायाससंभवम् ।
मीनसंक्षोभचलितै स्सलिलं पंकजैरिव ॥ 35 ॥

दृष्ट्वा तु नृपति श्श्रीमानेकचित्तगतं पुरम् ।
निपपातैव दुःखेन हतमूल इव द्रुमः ॥ 36 ॥

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
नराणां प्रेक्ष्य राजानं सीदंतं भृशदुःखितम् ॥ 37 ॥

हा रामेति जनाः केचिद्राममातेति चापरे ।
अंतःपुरं समृद्धं च क्रोशंतः पर्यदेवयन् ॥ 38 ॥

अन्वीक्षमाणो रामस्तु विषण्णं भ्रांतचेतसम् ।
राजानं मातरं चैव ददर्शानुगतौ पथि ॥ 39 ॥

स बद्ध इव पाशेन किशोरो मातरं यथा ।
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ 40 ॥

पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ 41 ॥

न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः ।
मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ 42 ॥

प्रत्यगारमिवायांती वत्सला वत्सकारणात् ।
बद्धवत्सा यथा धेनू राममाताभ्यधावत ॥ 43 ॥

तथा रुदंतीं कौसल्यां रथं तमनुधावतीम् ।
क्रोशंतीं राम रामेति हा सीते लक्ष्मणेति च ॥ 44 ॥

रामलक्ष्मणसीतार्थं स्रवंतीं वारि नेत्रजम् ।
असकृत्प्रैक्षत तदा नृत्यंतीमिव मातरम् ॥ 45 ॥

तिष्ठेति राजा चुक्रोश याहि याहीति राघवः ।
सुमंत्रस्य बभूवात्मा चक्रयोरिव चांतरा ॥ 46 ॥

नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि ।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ 47 ॥

रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।
व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ 48 ॥

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।
मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ 49 ॥

यमिच्छेत्पुनरायांतं नैनं दूरमनुव्रजेत् ।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ 50 ॥

तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ।
निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: