View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.9 अरण्यकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ नवमस्सर्गः ।

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनंदनम् ।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ 1 ॥

अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ॥ 2 ॥

त्रीण्येव व्यसनान्यत्र कामजानि भवंत्युत ।
मिथ्यावाक्यं परमकं तस्माद्गुरुतरावुभौ ॥ 3 ॥

परदाराभिगमनं विना वैरं च रौद्रता ।
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ॥ 4 ॥

कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ।
तव नास्ति मनुष्येंद्र न चाभूत्ते कदाचन ॥ 5 ॥

मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ।
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ॥ 6 ॥

धर्मिष्ठस्सत्यसंधश्च पितुर्निर्देशकारकः ।
सत्यसंध महाभाग श्रीमल्लक्ष्मणपूर्वज ॥ 7 ॥

त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम् ।
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेंद्रियैः ॥ 8 ॥

तव वश्येंद्रियत्वं च जानामि शुभदर्शन ।
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ॥ 9 ॥

निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ।
प्रतिज्ञातस्त्वया वीर दंडकारण्यवासिनाम् ॥ 10 ॥

ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ।
एतन्निमित्तं च वनं दंडका इति विश्रुतम् ॥ 11 ॥

प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ।
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिंताकुलं मनः ॥ 12 ॥

त्वद्वृत्तं चिंतयंत्या वै भवेन्निश्श्रेयसं हितम् ।
त्वां चैव प्रस्थितं दृष्ट्वा राम चिंताकुलं मनः ॥ 13 ॥

सर्वतचशिंतय्नत्या मे तव निश्श्रेयसं नृप ।
न हि मे रोचते वीर गमनं दंडकान्प्रति ॥ 14 ॥

कारणं तत्र वक्ष्यामि वदंत्याश्श्रूयतां मम ।
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ॥ 15 ॥

दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याश्शरव्ययम् ।
क्षत्रियाणामपि धनुर्हुताशस्येंधनानि च ॥ 16 ॥

समीपतस्स्थितं तेजो बलमुच्छ्रयते भृशम् ।
पुरा किल महाबाहो तपस्स्वी सत्यवाक्छुचिः ॥ 17 ॥

कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ।
तस्यैव तपसो विघ्नं कर्तुमिंद्रश्शचीपतिः ॥ 18 ॥

खंगपाणिरथागच्छदाश्रमं भटरूपधृत् ।
तस्मिंस्तदाश्रमपदे निशितः खंग उत्तमः ॥ 19 ॥

स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ।
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ॥ 20 ॥

वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः ।
यत्र गच्छत्युपादातुं मूलानि च फलानि च ॥ 21 ॥

न विना याति तं खंगं न्यासरक्षणतत्परः ।
नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ॥ 22 ॥

चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ।
ततस्सरौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः ॥ 23 ॥

तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ।
एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् ॥ 24 ॥

अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते ।
स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ॥ 25 ॥

न कथंचन सा कार्या गृहीतधनुषा त्वया ।
बुद्धिर्वैरं विना हंतुं राक्षसांदंडकाश्रितान् ॥ 26 ॥

अपराधं विना हंतुं लोकान्वीर न कामये ।
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् ॥ 27 ॥

धनुषा कार्यमेतावदार्तानां त्वभिरक्षणम् ।
क्वच शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्वच ॥ 28 ॥

व्याविद्धमिदमस्माभिर्द्देशधर्मस्तु पूज्यताम् ।
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् ॥ 29 ॥

पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ।
अक्षया तु भवेत्प्रीतिश्श्वश्रूश्वशुरयोर्मम ॥ 30 ॥

यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ।
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ॥ 31 ॥

धर्मेण लभते सर्वं धर्मसारमिदं जगत् ।
आत्मानं नियमैस्तैस्तै कर्शयित्वा प्रयत्नतः ॥ 32 ॥

प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ।
नित्यं शुचिमतिस्सौम्य चर धर्मं तपोवने ॥ 33 ॥

सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ।
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कस्समर्थः ।
विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे नवमस्सर्गः ॥




Browse Related Categories: