View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.91 अयोध्याकांड - एकनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकनवतितमस्सर्गः ।

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येनन्यमंत्रयत् ॥ 1 ॥

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथाऽतिथ्यं वने यदुपपद्यते ॥ 2 ॥

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 3 ॥

सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा तथार्हो मनुजर्षभ ॥ 4 ॥

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभः ॥ 5 ॥

भरतः प्रत्युवाचेदं प्रांजलिस्तं तपोधनम् ।
ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् ॥ 6 ॥

राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥ 7 ॥

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन्भूमिं महतीमनुयांति माम् ॥ 8 ॥

ते वृक्षानुदकं भूमिमाश्रमेषूटजां स्तथा ।
न हिंस्युरिति तेनाऽहमेक एव समागतः ॥ 9 ॥

आनीयतामितस्सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतस्सेनायास्समुपागमम् ॥ 10 ॥

अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 11 ॥

आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 12 ॥

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 13 ॥

प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामंतरिक्षे च समायांत्वद्य सर्वशः ॥ 14 ॥

अन्या स्रवंतु मैरेयं सुरामन्यास्सुविष्ठिताम् ।
अपरा श्चोदकं शीतमिक्षुकांडरसोपमम् ॥ 15 ॥

आह्वये देवगंधर्वान्विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गंधर्वीश्चापि सर्वशः ॥ 16 ॥

घृताचीमथ विश्वाचीं मिश्रकेशीमलंबुसाम् ।
नागदंतां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 17 ॥

शक्रं याश्चोपतिष्ठंति ब्रह्माणं याश्च योषितः ।
सर्वास्तुंबुरुणा सार्धमाह्वये सपरिच्छदाः ॥ 18 ॥

वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 19 ॥

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यंभोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 20 ॥

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ 21 ॥

एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 22 ॥

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृतांजलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 23 ॥

मलयं दर्दुरं चैव ततस्स्वेदनुदोऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखश्शिवः ॥ 24 ॥

ततोऽभ्यवर्षंत घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुंदुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ 25 ॥

प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः ।
जगुश्च देवगंधर्वा वीणाः प्रमुमुचुस्स्वरान् ॥ 26 ॥

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चरितश्श्लक्ष्णस्समो लयसमन्वितः ॥ 27 ॥

तस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 28 ॥

बभूव हि समा भूमिस्समंतात्पंचयोजना ।
शाद्वलैर्भहुभिश्चन्ना नीलवैढूर्यसन्निभैः ॥ 29 ॥

तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 30 ॥

उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीरजैर्भहुभिर्वृता ॥ 31 ॥

चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसंबाधास्तोरणानि शुभानि च ॥ 32 ॥

सितमेघनिभं चापि राजवेश्म सुतोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगंधसमुक्षितम् ॥ 33 ॥

चतुरश्रमसंबाधं शयनासनयानवत् ।
दिव्यैस्सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ 34 ॥

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।
क्लुप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥ 35 ॥

प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः ॥ 36 ॥

अनुजग्मुश्च तं सर्वे मंत्रिणस्सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 37 ॥

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मंत्रिभिस्सार्धमभ्यवर्तत राजवत् ॥ 38 ॥

आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत्सचिवासने ॥ 39 ॥

आनुपूर्व्यान्निषेदुश्च सर्वे मंत्रिपुरोहिताः ।
ततस्सेनापतिः पश्चात्प्रशास्ताच निषेदतुः ॥ 40 ॥

तत स्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठंत भरतं भरद्वाजस्य शासनात् ॥ 41 ॥

तासामुभयतः कूलं पांडुमृत्तिकलेपनाः ।
रम्याश्चावसधा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 42 ॥

तेनैव च मूहूर्तेन दिव्याऽभरणभूषिताः ।
आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ 43 ॥

सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहास्राः कुबेरप्रहिताः स्त्रियः ॥ 44 ॥

याभिर्गृहीतः पुरुषस्सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नंदनादप्सरोगणाः ॥ 45 ॥

नारदस्तुंभुरुर्गोपः प्रवरास्सूर्यवर्चसः ।
एते गंधर्वराजानो भरतस्याग्रतो जगुः ॥ 46 ॥

अलंबुसा मिश्रकेशी पुंडरीकाऽथ वामना ।
उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥ 47 ॥

यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यंत भरद्वाजस्य शासनात् ॥ 48 ॥

बिल्वा मार्दंगिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात् ॥ 49 ॥

ततस्सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र संपेतुः कुब्जा भूत्वाऽथ वामनाः ॥ 50 ॥

शिंशुपामलकीजंब्वो याश्चान्याः काननेषु ताः मालती मल्लिका जातिर्याश्चान्याः कानने लताः ।
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् ॥ 51 ॥

सुरास्सुरापाः पिबत पायसं च बुभुक्षिताः ॥ 52 ॥

मांसानि च सुमेध्यानि भक्ष्यंतां यावदिच्छथ ॥ 53 ॥

उच्छाद्य स्नापयंति स्म नदीतीरेष वल्गुषु ।
अप्येकमेकं पुरषं प्रमदास्सप्त चाष्ट च ॥ 54 ॥

संवाहंत्यस्समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथाऽन्योन्यं पाययंति वरांगनाः ॥ 55 ॥

हयान् गजान् खारानुष्ट्रांतथैव सुरभेस्सुतान् ।
अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि ॥ 56 ॥

इक्षूंश्च मधुलाजांश्च भोजयंति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयंतो महाबलाः ॥ 57 ॥

नाश्वबंधोऽश्वमाजानान्नगजं कुंजरग्रहः ।
मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥ 58 ॥

तर्पितास्सर्वकामैस्ते रक्तचंदनरूषिताः ।
अप्सरोगणसंयुक्तास्सैन्या वाचमुदैरयन् ॥ 59 ॥

नैवायोध्यां गमिष्यामो नगमिष्याम दंडकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 60 ॥

इति पादातयोधाश्च हस्त्यश्वारोहबंधकाः ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन् ॥ 61 ॥

संंप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारस्स्वर्गोऽयमिति चाब्रुवन् ॥ 62 ॥

नृत्यंति स्म हसंति स्म गायंति स्म च सैनिकाः समंतात्परिधावंति माल्योपेतास्सहस्रशः ॥ 63 ॥

ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यां स्तानभवद्भक्षणे मतिः ॥ 64 ॥

प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ते भृशं दृप्तास्सर्वे चाहतवाससः ॥ 65 ॥

कुंजराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः ।
बभूवुस्सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 66 ॥

नाऽशुक्लवासा स्तत्राऽसीत्क्षुधितो मलिनोऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 67 ॥

आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः ।
फलनिर्यूह संसिद्दैस्सूपैर्गंध रसान्वितैः ॥ 68 ॥

पुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः ॥ 69 ॥

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्चकामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः ॥ 70 ॥

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 71 ॥

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुधानि च पात्राणि शातकुंभमयानि च ॥ 72 ॥

स्थाल्यः कुंभ्य करंभ्य श्च दधिपूर्णास्सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगंधिनः ॥ 73 ॥

ह्रदाः पूर्णा रसालस्य दध्नश्श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायावसंचयाः ॥ 74 ॥

कल्कान्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरतां नराः ॥ 75 ॥

शुक्लानंशुमतश्चापि दंतधावनसंचयान् ।
शुक्लांश्चंदनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 76 ॥

दर्पणापरिमृष्टांश्च वाससां चापि संचयान् ।
पादुकोपानहां चैव युग्मानिच सहस्रशः ॥ 77 ॥

आंजनीः कंकतान्कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 78 ॥

प्रतिपानह्रदान्पूर्णन्खरोष्ट्रगजवाजिनाम् ।
अवगाह्यसुतीर्थांश्चह्रदान् सोत्पलपुष्करान् ॥ 79 ॥

आकाश वर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान् ।
नीपवैडूर्यवर्णांश्च मृदून्यवससंचयान् ।
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 80 ॥

व्यस्मयंत मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महर्षिणा ॥ 81 ॥

इत्येवं रममाणानां देवानामिव नंदने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ 82 ॥

प्रतिजग्मुश्च ता नद्यो गंधर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वरांगनाः ॥ 83 ॥

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागरुचंदनोक्षिताः ।
तथैव दिव्या विविधास्स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 84 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकनवतितमस्सर्गः ॥




Browse Related Categories: