View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.3 बालकांड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ तृतीयस्सर्गः ।

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ 1 ॥

उपस्पृश्योदकं सम्यग्मुनिस्स्थित्वा कृतांजलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ 2 ॥

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ॥ 3 ॥

हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् ।
तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ॥ 4 ॥

स्त्रीतृतीयेन च तदा यत्प्राप्तं चरता वने ।
सत्यसंधेन रामेण तत्सर्वं चान्ववेक्षितम् ॥ 5 ॥

ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ 6 ॥

तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः ।
अभिरामस्य रामस्य चरितं कर्तुमुद्यतः ॥ 7 ॥

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ 8 ॥

स यथा कथितं पूर्वं नारदेन महर्षिणा ।
रघुवंशस्य चरितं चकार भगवानृषिः ॥ 9 ॥

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षांतिं सौम्यतां सत्यशीलताम् ॥ 10 ॥

नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ 11 ॥

रामरामविवादं च गुणांदाशरथेस्तथा ।
तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ 12 ॥

विघातं चाभिषेकस्य राघवस्य विवासनम् ।
राज्ञश्शोकविलापं च परलोकस्य चाश्रयम् ॥ 13 ॥

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ 14 ॥

गंगायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ 15 ॥

वास्तुकर्म निवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ 16 ॥

पादुकाग्र्याभिषेकं च नंदिग्रामनिवासनम् ।
दंडकारण्यगमनं विराधस्य वधं तथा ॥ 17 ॥

दर्शनं शरभंगस्य सुतीक्ष्णेन समागमम् ।
अनसूयासहास्यामप्यंगरागस्य चार्पणम् ॥ 18 ॥

अगस्त्यदर्शनं चैव जटायोरभिसंगमम् ।
पंचवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ॥ 19 ॥

शूर्पणख्याश्च संवादं विरूपकरणं तथा ।
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥ 20 ॥

मारीचस्य वधं चैव वैदेह्या हरणं तथा ।
राघवस्य विलापं च गृध्रराजनिबर्हणम् ॥ 21 ॥

कबंधदर्शनं चापि पंपायाश्चापि दर्शनम् ।
शबर्याः दर्शनं चैव हनूमद्दर्शनं तथा ॥ 22 ॥

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ 23 ॥

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
ताराविलापं समयं वर्षरात्रनिवासनम् ॥ 24 ॥

कोपं राघवसिंहस्य बलानामुपसंग्रहम् ।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ 25 ॥

अंगुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।
प्रायोपवेशनं चापि संपातेश्चापि दर्शनम् ॥ 26 ॥

पर्वतारोहणं चापि सागरस्यापि लंघनम् ।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ 27 ॥

सिंहिकायाश्च निधनं लंकामलयदर्शनम् ।
रात्रौ लंकाप्रवेशं च एकस्याथ विचिंतनम् ॥ 28 ॥

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।
आपानभूमिगमनमवरोधस्य दर्शनम् ॥ 29 ॥

अशोकवनिकायानं सीतायाश्चपि दर्शनम् ।
अभिज्ञानप्रदानं च रावणस्य च दर्शनम् ॥ 30 ॥

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।
मणिप्रदानं सीताया वृक्षभंगं तथैव च ॥ 31 ॥

राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ।
ग्रहणं वायुसूनोश्च लंकादाहाभिगर्जनम् ॥ 32 ॥

प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।
राघवाश्वासनं चापि मणिनिर्यातनं तथा ॥ 33 ॥

संगमं च समुद्रेण नलसेतोश्च बंधनम् ।
प्रतारं च समुद्रस्य रात्रौ लंकावरोधनम् ॥ 34 ॥

विभीषणेन संसर्गं वधोपायनिवेदनम् ।
कुंभकर्णस्य निधनं मेघनादनिबर्हणम् ॥ 35 ॥

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ॥ 36 ॥

अयोध्यायाश्च गमनं भरतेन समागमम् ।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररंजनं चैव वैदेह्याश्च विसर्जनम् ॥ 37 ॥

अनागतं च यत्किंचिद्रामस्य वसुधातले ।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे तृतीयस्सर्गः ॥




Browse Related Categories: