View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.55 अयोध्याकांड - पंचपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचपंचाशस्सर्गः ।

उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ 1 ॥

तेषां चैव स्वस्त्ययनं महर्षि स्स चकार ह ।
प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात् ॥ 2 ॥

ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ 3 ॥

गंगायमुनयो स्संधिमासाद्य मनुजर्षभौ ।
कालिंदीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ 4 ॥

अथाऽसाद्य तु कालिंदी शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थं प्रचलितं पुराणं प्रेक्ष्य राघवौ ॥ 5 ॥

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
ततो न्यग्रोधमासाद्य महांतं हरितच्छदम् ॥ 6 ॥

विवृद्धं बहुभिर्वृक्षै श्श्यामं सिद्धोपसेवितम् ।
तस्मै सीतांजलिं कृत्वा प्रयुंजीताशिषश्शिवाः ॥ 7 ॥

समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा ।
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ 8 ॥

पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ।
स पंथाश्चित्रकूटस्य गत स्सुबहुशो मया ॥ 9 ॥

रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ।
इति पंथानमावेद्य महर्षिस्सन्यवर्तत ॥ 10 ॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।
उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत् ॥ 11 ॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकंपते ।
इति तौ पुरुषव्याघ्रौ मंत्रयित्वा मनस्विनौ ।
सीतामेवाग्रतः कृत्वा कालिंदीं जग्मतुर्नदीम् ॥ 12 ॥

अथाऽसाद्य तु कालिंदीं शीघ्रस्रोतोवहां नदीम् ।
चिंतामापेदिरे सर्वे नदीजलतितीर्षवः ॥ 13 ॥

तौ काष्ठसंघातमथो चक्रतु स्सुमहाप्लवम् ।
शुष्कैर्वंशै स्समास्तीर्णमुशीरैश्च समावृतम् ॥ 14 ॥

ततो वेतसशाखाश्च जंबूशाखाश्च वीर्यवान् ।
चकार लक्ष्मणश्छित्वा सीताया स्सुखमासनम् ॥ 15 ॥

तत्र श्रियमिवाचिंत्यां रामो दाशरथिः प्रियाम् ।
ईषत्संलज्जमानां तामध्यारोपयतप्लवम् ॥ 16 ॥

पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ।
प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः ॥ 17 ॥

आरोप्य प्रथमं सीतां संघाटं परिगृह्य तौ ।
तत प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ 18 ॥

कालिंदीमध्यमायाता सीता त्वेनामवंदत ।
स्वस्ति देवि तरामि त्वां पारये न्मे पतिर्व्रतम् ॥ 19 ॥

कालिंदी मथ सीता तु याचमाना कृतांजलिः ।
तीरमेवाभिसंप्राप्ता दक्षिणं वरवर्णिनी ॥ 20 ॥

तत प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।
तीरजै र्बहुभिर्वृक्षै स्संतेरुर्यमुनां नदीम् ॥ 21 ॥

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ।
श्यामं न्यग्रोध मासेदु श्शीतलं हरितच्छदम् ॥ 22 ॥

न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ।
नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ॥ 23 ॥

कौशल्यां चैव पश्येयं सुमित्रां च यशश्विनीम् ।
इति सीताऽंजलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ 24 ॥

अवलोक्य तत स्सीतामायाचंतीमनिंदिताम् ।
दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ 25 ॥

सीतामादाय गच्छत्वमग्रतो भरतानुज ।
पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर ॥ 26 ॥

यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
तत्तत्प्रदद्या वैदेह्या यत्राऽस्या रमते मनः ॥ 27 ॥

गच्छतोऽस्तु तयोर्मध्ये बभूव जनकात्मजा ।
मातंगयोर्मध्यगता शुभा नागवधूरिव ॥ 28 ॥

एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
अदृष्टपूर्वां पश्यंती रामं पप्रच्छ साऽबला ॥ 29 ॥

रमणीयान्बहुविधान्पादपान्कुसुमोत्कटान् ।
सीतावचनसंरब्ध आनयामास लक्ष्मणः ॥ 30 ॥

विचित्रवालुकजलां हंससारसनादिताम् ।
रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम् ॥ 31 ॥

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।
बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने ॥ 32 ॥

विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते ।
समं नदीवप्रमुपेत्य सम्मतं निवास माजग्मु रदीनदर्शनाः ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचपंचाशस्सर्गः ॥




Browse Related Categories: