View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.74 अयोध्याकांड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुःसप्ततितमस्सर्गः ।

तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।
रोषेण महताऽविष्टः पुनरेवाब्रवीद्वचः ॥ 1 ॥

राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ।
परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥ 2 ॥

किन्नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः ।
ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥ 3 ॥

भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ।
कैकेयि नरकं गच्छ मा च भर्तु स्सलोकताम् ॥ 4 ॥

यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।
सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ 5 ॥

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः ।
अयशो जीवलोके च त्वयाऽहं प्रतिपादितः ॥ 6 ॥

मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।
न तेऽह मभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥ 7 ॥

कौसल्या च सुमित्रा च याश्चान्या मम मातरः ।
दुःखेन महताऽविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥ 8 ॥

न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः ।
राक्षसी तत्र जाताऽसि कुलप्रध्वंसिनी पितुः ॥ 9 ॥

यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः ।
वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः ॥ 10 ॥

यत्प्रधानाऽसि तत्पापं मयि पित्रा विनाकृते ।
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ 11 ॥

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये ।
कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि ॥ 12 ॥

किं नावबुध्यसे क्रूरे नियतं बंधुसंश्रयम् ।
ज्येष्ठं पितृसमं रामं कौसल्यायाऽत्मसंभवम् ॥ 13 ॥

अङगप्रत्यङगजः पुत्रो हृदयाच्चापि जायते ।
तस्मात्प्रियतमो मातुः प्रिया एव तु बांधवाः ॥ 14 ॥

अन्यदा किल धर्मज्ञा सुरभि स्सुरसम्मता ।
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥ 15 ॥

तावर्धदिवसे श्रांतौ दृष्ट्वा पुत्रौ महीतले ।
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ 16 ॥

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः ।
बिंदवः पतिता गात्रे सूक्ष्मा स्सुरभिगंधिनः ॥ 17 ॥

इंद्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगंधिनम् ।
सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः ॥ 18 ॥

निरीक्षमाण श्शक्रस्तां ददर्श सुरभिं स्थिताम् ।
आकाशे विष्ठितां दीनां रुदंतीं भृशदुःखिताम् ॥ 19 ॥

तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम् ।
इंद्रः प्रांजलिरुद्विग्न स्सुरराजोऽब्रवीद्वचः ॥ 20 ॥

भयं कच्छिन्न चास्मासु कुतश्चिद्विद्यते महत् ।
कुतोनिमत्तश्शोकस्ते ब्रूहि सर्वहितैषिणि ॥ 21 ॥

एवमुक्ता तु सुरभि स्सुरराजेन धीमता ।
प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥ 22 ॥

शांतं पापं न वः किंचित्कुतश्चिदमराधिपः ।
अहं मग्नौ तु शोचामि स्वपुत्रौ विषमे स्थितौ ॥ 23 ॥

एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ ।
बाध्यमानौ बलीवर्धौ कर्षकेण सुराधिप ॥ 24 ॥

ममकायात्प्रसूतौ हि दुःखितौ भारपीडितौ ।
यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ 25 ॥

यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् ।
तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम् ॥ 26 ॥

सदाऽप्रतिमवृत्तायाः लोकधारणकाम्यया ।
श्रीमत्या गुणनित्याया स्स्वभावपरिचेष्टया ॥ 27 ॥

यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् ।
किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ॥ 28 ॥

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।
तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ 29 ॥

अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् ।
वर्धनं यशसश्चापि करिष्यामि न संशयः ॥ 30 ॥

अनाययित्वा तनयं कौसल्याया महाबलम् ।
स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ 31 ॥

न ह्यहं पापसंकल्पे पापे पापं त्वया कृतम् ।
शक्तो धारयितुं पौरैरश्रुकंठै र्निरीक्षितः ॥ 32 ॥

सा त्वमग्निं प्रविश वा स्वयं वा दंडकान्विश ।
रज्जुं बधान वा कंठे न हि तेऽन्यत्परायणम् ॥ 33 ॥

अहमप्यवनीं प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥ 34 ॥

इति नाग इवारण्ये तोमरांकुशचोदितः ।
पपात भुवि संकृद्धो निश्श्वसन्निव पन्नगः ॥ 35 ॥

संरक्तनेत्र श्शिथिलांभरस्तदा विधूतसर्वाभरणः परंतपः ।
बभूव भूमौ पतितो नृपात्मजश्शचीपतेः केतुरिवोत्सवक्षये ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: