श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टमस्सर्गः ।
रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः ।
परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ 1 ॥
उत्थाय तु यथाकालं राघवस्सहसीतया ।
उपस्पृश्यसुशितेन जलेनोत्पलगंधिना ॥ 2 ॥
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ।
काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥ 3 ॥
उदयंतं दिनकरं दृष्ट्वा विगतकल्मषाः ।
सुतीक्ष्णभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ 4 ॥
सुखोषितास्स्मभगवंस्त्वया पूज्येन पूजिताः ।
आपृच्छामः प्रयास्यामो मुनयस्त्वरयंति नः ॥ 5 ॥
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममंडलम् ।
ऋषीणां पुण्यशीलानां दंडकारण्यवासिनाम् ॥ 6 ॥
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुंगवैः ।
धर्मनित्यैस्तपोदांतैर्विशिखैरिव पावकैः ॥ 7 ॥
अविषह्यातपो यावत्सूर्यो नातिविराजते ।
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ 8 ॥
तावदिच्छामहे गंतुमित्युक्त्वा चरणौ मुनेः ।
ववंदे सहसौमित्रिस्सीतया सह राघवः ॥ 9 ॥
तौ संस्पृशंतौ चरणावुत्थाप्य मुनिपुंगवः ।
गाढमालिंग्य सस्नेहमिदं वचनमब्रवीत् ॥ 10 ॥
अरिष्टं गच्छ पंथानं राम सौमित्रिणा सह ।
सीतया चानया सार्धं छाययेवानुवृत्तया ॥ 11 ॥
पश्याश्रमपदं रम्यं दंडकारण्यवासिनाम् ।
एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ 12 ॥
सप्राज्यफलमूलानि पुष्पितानि वनानि च ।
प्रशस्तमृगयूथानि शांतपक्षिगणानि च ॥ 13 ॥
फुल्लपंकजषंडानि प्रसन्नसलिलानि च ।
कारंडवविकीर्णानि तटाकानि सरांसि च ॥ 14 ॥
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।
रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ 15 ॥
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।
आगंतव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम ॥ 16 ॥
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः ।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ 17 ॥
ततश्शुभतरे तूणी धनुषी चायतेक्षणा ।
ददौ सीता तयोर्भ्रात्रोः खंगौ च विमलौ ततः ॥ 18 ॥
आबध्य च शुभे तूणी चापे चादाय सुस्वनौ ।
निष्क्रांतावाश्रमाद्गंतुमुभौ तौ रामलक्ष्मणौ ॥ 19 ॥
श्रीमंतौ रूपसंपन्नौ दीप्यमानौ स्वतेजसा ।
प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ ॥ 20 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टमस्सर्गः ॥