श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्वितीयस्सर्गः ।
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ।
आम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत ॥ 1 ॥
नानामृगगणाकीर्णमृक्षशार्दूल सेवितम् ।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ 2 ॥
निष्कूजनानाशकुनिझिल्लिकागणनादितम् ।
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ 3 ॥
सीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते ।
ददर्श गिरिशृंगाभं पुरुषादं महास्वनम् ॥ 4 ॥
गंभीराक्षं महावक्त्रं विकटं विषमोदरम् ।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ 5 ॥
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।
त्रासनं सर्वभूतानां व्यादितास्यमिवांतकम् ॥ 6 ॥
त्रीन्सिम्हान्श्चतुरो व्याघ्रांद्वौ वृकौ पृषतांदश ।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ।
अवसज्यायसे शूले विनदंतं महास्वनम् ॥ 7 ॥
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।
अभ्यधावत्सुसंकृद्धः प्रजाः काल इवांतकः ॥ 8 ॥
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।
अंकेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ 9 ॥
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ।
प्रविष्टौ दंडकारण्यं शरचापासिधारिणौ ॥ 10 ॥
कथं तापसयोर्वां च वासः प्रमदया सह ।
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ 11 ॥
अहं वनमिदं दुर्गं विराधो नाम राक्षसः ।
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ 12 ॥
इयं नारी वरारोहा मम भार्या भविष्यति ।
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ 13 ॥
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः ।
श्रुत्वा सगर्वितं वाक्यं संभ्रांता जनकात्मजा ॥ 14 ॥
सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा ॥ 15 ॥
तां दृष्ट्वा राघवः सीतां विराधांकगतां शुभाम् ।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ 16 ॥
पश्य सौम्य नरेंद्रस्य जनकस्यात्मसंभवाम् ।
मम भार्यां शुभाचारां विराधांके प्रवेशिताम् ॥ 17 ॥
अत्यंतसुखसंमवृद्धां राजपुत्रीं यशस्विनीम् ।
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ 18 ॥
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ।
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ 19 ॥
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् ।
अद्येदानीं सकामा सा या माता मध्यमा मम ॥ 20 ॥
परस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे ।
पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा ॥ 21 ॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ 22 ॥
अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ 23 ॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ 24 ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह ।
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ 25 ॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि ।
व्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्वितीयस्सर्गः ॥