View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.66 बालकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

ततः प्रभाते विमले कृतकर्मा नराधिपः ।
विश्वामित्रं महात्मानं आजुहाव सराघवम् ॥ 1 ॥

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ 2 ॥

भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ ।
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥ 3 ॥

एवमुक्तस्स धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ 4 ॥

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
द्रुष्टुकामौ धनु श्श्रेष्ठं यदेतत्वयि तिष्ठति ॥ 5 ॥

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ 6 ॥

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ 7 ॥

देवरात इति ख्यातो निमेष्षष्ठो महीपतिः ।
न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ 8 ॥

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
रुद्रस्तु त्रिदशान् रोषात्सलीलमिदमब्रवीत् ॥ 9 ॥

यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः ।
वरांगाणि महार्हाणि धनुषा शातयामि वः ॥ 10 ॥

ततो विमनसस्सर्वे देवा वै मुनिपुंगव ।
प्रसादयंति देवेशं तेषां प्रीतोऽभवद्भवः ॥ 11 ॥

प्रीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम् ।
तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
न्यासभूतं तदा न्यस्तमस्माकं पूर्व के विभो ॥ 12 ॥

अथ मे कृषतः क्षेत्रं लांगूलादुत्थिता मया ।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ 13 ॥

भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ।
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ 14 ॥

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
वरयामासुरागम्य राजानो मुनिपुंगव ॥ 15 ॥

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
वीर्यशुल्केति भगवन् न ददामि सुतामहम् ॥ 16 ॥

ततस्सर्वे नृपतय स्समेत्य मुनिपुंगव ।
मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ 17 ॥

तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् ।
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ 18 ॥

तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ।
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ॥ 19 ॥

ततः परमकोपेन राजानो नृपपुंगव ।
न्यरुंधन्मिथिलां सर्वे वीर्यसंदेहमागताः ॥ 20 ॥

आत्मानमवधूतं ते विज्ञाय नृपपुंगवाः ।
रोषेण महताऽऽविष्टाः पीडयन्मिथिलां पुरीम् ॥ 21 ॥

ततस्संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ॥ 22 ॥

ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् ।
ददुश्च परमप्रीता श्चतुरंगबलं सुराः ॥ 23 ॥

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
अवीर्या वीर्यसंदिग्धा स्सामात्याः पापकर्मणः ॥ 24 ॥

तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ॥ 25 ॥

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: