View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.131 युद्धकांड - एकत्रिंशदधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकत्रिंशदधिकशततमस्सर्गः ।

शिरस्यंजलिमाधायकैकेय्यानंदवर्धनः ।
बभाषेभरतोज्येष्ठंरामंसत्यपराक्रमम् ॥ 1 ॥

पूजितामामिकामातादत्तंराज्यमिदंमम ।
तद्ददामिपुनस्तुभ्यंयथात्वमददामम ॥ 2 ॥

धुरमेकाकिनान्यस्तांवृषभेणबलीयसा ।
किशोरवद्गुरुंभारं न वोढुमहमुत्सहे ॥ 3 ॥

वारिवेगेनमहताभिन्नस्सेतुरिवक्षरन् ।
दुर्बंधनमिदंमन्येराज्यच्छ्रिदमसम्वृतम् ॥ 4 ॥

गतिंखरैवाश्वस्यहंसस्येव च वायसः ।
नान्वेतुमुत्सहेराम तवमार्गमरिंदम ॥ 5 ॥

यथाचारोपितोवृक्षोजातश्चार्नंतिवेशने ।
महांश्चसुदुरारोहोमहास्कंदःप्रशाखवान् ॥ 6 ॥

शीर्येतपुष्पितोभूत्वा न फलानिप्रदर्शयन् ।
तस्यनानुभवेदर्थंयस्यहेतोस्सरोपितः ॥ 7 ॥

एषोपमामहाबाहोत्वमर्थंवेत्तुमर्हसि ।
यद्यस्मान्मनुजेंद्रत्वंभर्ताभृत्यान्नशाधिहि ॥ 8 ॥

जगदद्याभिषिक्तंत्वामनुपश्यतुराघव ।
प्रतपंतमिवादित्यंमध्याह्नेदीप्ततेजसम् ॥ 9 ॥

तूर्यसंघांतिर्घोषैःकांचीनूपुरनिःस्वनैः ।
मधुरैर्गीतशब्दैश्चप्रतिबुध्यस्वशेष्व च ॥ 10 ॥

यावदावर्ततेचक्रंयावती च वसुंधरा ।
तावत्त्वमिहलोकस्यस्वामित्वमनुवर्तय ॥ 11 ॥

भरतस्यवच्श्रुत्वारामःपरपुरंजयः ।
तथेतिप्रतिजग्राहनिषसादासनेशुभे ॥ 12 ॥

ततश्शत्रुघ्नवचनान्निपुणाःश्मश्रुवर्धनाः ।
सुखहस्ताःसुशीघ्राश्चराघवंपर्यवारयन् ॥ 13 ॥

पूर्वंतुभरतेस्नातेलक्ष्मणे च महाबले ।
सुग्रीवेवानरेंद्रे च राक्षसेंद्रेविभीषणे ॥ 14 ॥

विशोधितजटस्स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवसनोपेतस्तस्थौतत्रश्रियाज्वलन् ॥ 15 ॥

प्रतिकर्म च रामस्यकारयामासवीर्यवान ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ 16 ॥

प्रतिकर्मचसीतायास्सर्वादशरथस्त्रियः ।
आत्मनैवतदाचक्रुर्मनस्विन्योमनोहरम् ॥ 17 ॥

ततोवानरपत्नीनांसर्वासामेवशोभनम् ।
चकारयत्नात्कौसल्याप्रहृष्टापुत्रवत्सला ॥ 18 ॥

ततः श्शत्रुघ्नवचनात्सुमंत्रोनामसारथिः ।
योजयित्वाभिचक्रामरथंसर्वांगशोभनम् ॥ 19 ॥

अर्कमंडलसंकाशंदिव्यंदृष्टवारथंस्थितम् ।
आरुरोहमहाबाहूरामःपरपुरंंजयः ॥ 20 ॥

सुग्रीवोहनुमांश्चैवमहेंद्रसदृशद्युती ।
स्नातौदिव्यनिभैर्वस्त्रैर्जग्मतुश्शुभकुंडलौ ॥ 21 ॥

सर्वाभरणजुष्टाश्चयुयुस्तश्शुभकुंडलाः ।
सुग्रीवपत्नयःसीता च द्रष्टुंनगरमुत्सुकाः ॥ 22 ॥

अयोध्यायांतुसचिवाराज्ञोदशरथस्य च ।
पुरोहितंपुरस्कृत्यमंत्रयामासुरर्थवत् ॥ 23 ॥

अशोकोविजयश्चैवसिद्धार्थश्चसमाहिताः ।
मंत्रयन्रामवृध्यर्थंबुध्यर्थंनगरस्य च ॥ 24 ॥

सर्वमेवाभिषेकार्थंजयार्हस्यमहात्मनः ।
कर्तुमर्हथरामस्ययद्यन्मंगलपूर्वकम् ॥ 25 ॥

इतितेमंत्रिणस्सर्वेसंदिश्य च पुरोहितम् ।
नगरान्निर्ययुस्तूर्णंरामदर्शनबुद्धयः ॥ 26 ॥

हरियुक्तंसहस्राक्षोरथमिंद्रैवानघः ।
प्रययौरथमास्थायरामोनगरमुत्तमम् ॥ 27 ॥

जग्राहभरतोरमशीन्शत्रुघ्नश्चत्रमाददे ।
लक्ष्मणोव्यजनंतस्यमूर्ध्निसंपर्यवीजयत् ॥ 28 ॥

श्वेतं च वालव्यजनंजगृहेपरितस्स्थितः ।
अपरंचंद्रसंकाशंराक्षसेंद्रोविभीषणः ॥ 29 ॥

ऋषिसंघैस्तदाकाशेदेवैश्चसमरुद्गणैः ।
स्तूयमास्यरामस्यशुश्रुवमधुरध्वनिः ॥ 30 ॥

ततःशत्रुंजयंनामकुंजरंपर्वतोपमम् ।
आरुरोहमहातेजास्सुग्रीवःप्लवगर्षभः ॥ 31 ॥

नवनागसहस्राणिययुरास्थायवानराः ।
मानुषंविग्रहंकृत्वासर्वाभरणभूषिताः ॥ 32 ॥

शंखशब्दप्रणादैश्चदुंदुभीनां च निस्स्वनैः ।
प्रययौपुरुषव्याघ्रस्तांपुरींहर्म्यमालिनीम् ॥ 33 ॥

ददृशुस्तेसमायांतंराघवंसपुरस्सरम् ।
विराजमानंवपुषारथेनातिरथंतदा ॥ 34 ॥

तेवर्थयित्वाकाकुत्स्थंरामेणप्रतिनंदिताः ।
अनुजग्मुर्महात्मानंभ्रातृभिःपरिवारितम् ॥ 35 ॥

अमात्यैर्ब्राह्मणैश्चैवतथाप्रकृतिभिर्ववृतः ।
श्रियाविरुरुचेरामोनक्षत्ररिवचंद्रमाः ॥ 36 ॥

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मंगलानिवृतोययौ ॥ 37 ॥

अक्षतंजातरूपं च गावःकन्यास्सहद्विजाः ।
नरामोदकहस्ताश्चरामस्यपुरतोययुः ॥ 38 ॥

सख्यं च रामस्सुग्रीवेप्रभावंचानिलात्मजे ।
वानराणां च तत्कर्मह्याचचक्षेऽऽथमंत्रिणाम् ॥ 39 ॥

श्रुत्वा च विस्मयंजग्मुरयोध्यापुरवासिनः ।
वानराणां च ततकर्मराक्षसानां च तद्बलम् ॥ 40 ॥

विभीषणस्यसम्योगमाचचक्षेऽथमंत्रिणाम् ।
द्युतिमानेतदाख्यायरामोवानरसम्युतः ॥ 41 ॥

हृष्टपुष्टजनाकीर्णमयोध्यांप्रविवेशसः ।
ततोह्यभ्युच्छ्रयन्पौराःपताकाश्चगृहेगृहे ॥ 42 ॥

ऐक्ष्वाकुध्युषितंरम्यमाससादपितुर्गृहम् ।
अथाब्रवीद्राजपुत्रोभरतंधर्मिणांवरम् ॥ 43 ॥

अर्धोपहितयावाचामधुरंरघुनंदनः ।
पितुर्भवनमासाद्यप्रविश्य च महात्मनः ॥ 44 ॥

कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ।
यच्छमद्भवनंश्रेष्ठंसाशोकवनिकंमहत् ॥ 45 ॥

मुक्तावैदूर्यसंकीर्णंसुग्रीवायनिवेदय ।
तस्यतद्वचनंश्रुत्वाभरतस्सत्यविक्रमः ॥ 46 ॥

हस्तेगृहीत्वासुग्रीवंप्रविवेशतमालयम् ।
ततः स्स्सैलप्रदीपांश्चपर्यंकास्तरणानि च ॥ 47 ॥

गृहीत्वाविविशुःक्षिप्रंशत्रुघ्नेप्रचोदिताः ।
उवाच च महातेजास्सुग्रीवंराघवानुजः ॥ 48 ॥

अभिषेकायरामस्यदूतानाज्ञापयप्रभो ।
सौवर्णान्वानरेंद्राणांचतुर्णांचतुरोघटान् ॥ 49 ॥

ददौक्षिप्रंससुग्रीवस्सर्वरत्नविभूषितान् ।
यथाप्रत्यूषसमयेचतुर्णांसागरांबसाम् ॥ 50 ॥

पूर्णघटैःप्रतीक्षध्वंतथाकुरुतवानराः ।
एवमुक्तामहात्मानोवानरावारणोपमाः ॥ 51 ॥

उत्पेतुर्गगनंशीघ्रंगरुडाइवशीघ्रगाः ।
जांबवांश्चहनूमांश्चवेगदर्शी च वानरः ॥ 52 ॥

ऋषभश्चैवकलशान्जलपूर्णानथानयन् ।
नदीशतानांपंचानांजलंकुंभैरुपाहरन् ॥ 53 ॥

पूर्वात्समुद्रात्कलशंजलपूर्णमथानयत् ।
सुषेणस्सत्त्वसंपन्नस्सर्वरत्नविभूषितम् ॥ 54 ॥

ऋषभोदक्षिणात्तूर्णंसमुद्राज्जलमानयत् ।
रक्तचंदनशाखाभिस्सम्वृतंकांचनंघटम् ॥ 55 ॥

गवयःपश्चिमात्तोयमाजहारमहार्णवात् ।
रत्नकुंभेनमहताशीतंमारुतविक्रमः ॥ 56 ॥

उत्तराच्चजलंशीघ्रंगरुडानिलविक्रमः ।
आजहार स धर्मात्मानलःसर्वगुणान्वितः ॥ 57 ॥

ततस्तैर्वानरश्रेष्ठैरानीतंप्रेक्ष्यतज्जलम् ।
अभिषेकायरामस्यशत्रुघ्नस्सचिवैस्सह ॥ 58 ॥

पुरोहितायश्रेष्ठायसुहृद्भ्यश्चन्यवेदयत् ।
ततस्सप्रयतोवृद्धोवसिष्ठोब्राह्मणैःसह ॥ 59 ॥

रामंरत्नमयेपीठेससीतंसन्नयवेशयत् ।
वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः ॥ 60 ॥

कात्यायनोसुयज्ञश्चगौतमोविजयस्तथा ।
अभ्यषिंचन्नरव्याघ्रंप्रसन्नेनसुगंधिना ॥ 61 ॥

सलिलेनसहस्राक्षंवसवोवासवंयथा ।
ऋग्भिर्भ्राह्मणैःपूर्वंकन्याभिर्मंत्रिभिस्तथा ॥ 62 ॥

योथौश्चैवाभ्यषिंचंस्तेसंप्रहृष्टास्सनैगमैः ।
सर्वौषधीनसैश्चापिदैवतैर्नभसिस्थितैः ॥ 63 ॥

चतुर्भिर्लोकपालैश्चसर्वैर्देवैश्चसंगतैः ।
ब्रह्मणानिर्मितंपूर्वंकिरीटंरत्नशोभितम् ॥ 64 ॥

अभिषिक्तःपुरायेवमनुस्तंदीप्ततेजसम् ।
तस्यान्ववायेराजानःक्रमाद्येनाभिषेचिताः ॥ 65 ॥

सभायांहेमक्लुप्तायांशोभितायांमहाधनैः ।
रत्नैर्नानाविधैश्चवचित्रितायांसुशोभनैः ॥ 66 ॥

नानारत्नमयेपीठेकल्पयित्वायथाविधि ।
किरीटेनततःपश्चाद्वसिष्ठेनमहात्मना ॥ 67 ॥

ऋत्विगिमभगिर्भूषणैश्चैवसमयोक्ष्यतराघवः ।
छत्रंतस्य च जग्राहशत्रघ्नःपांडुरंशुभम् ॥ 68 ॥

श्वेतं च वालव्यजनंसुग्रीवोवानरेश्वरः ।
अपरंचंद्रसंकाशंराक्षसेंद्रोविभीषणः ॥ 69 ॥

मालांज्वलंतींवपुषाकांचनींशतपुष्कराम् ।
राघवायददौवायुर्वासवेनप्रचोदितः ॥ 70 ॥

सर्वरत्नसमायुक्तंमणिभिश्चविभूषितम् ।
मुक्ताहारंनरेंद्रायददौशक्रप्रचोदितः ॥ 71 ॥

प्रजगुर्धेवगंधर्वाननृतुश्चाप्सरोगणाः ।
अभिषेकेतदर्हस्यतदारामस्यधीमतः ॥ 72 ॥

भूमिःसस्यवतीचैवफलवंतश्चपादपाः ।
गंधवंति च पुष्पाणिबभूवूराघवोत्सवे ॥ 73 ॥

सहस्रशतमश्वानांधेनूनां च गवांतथा ।
ददौशतवृषान्पूर्वंद्विजेभ्योमनुजर्षभः ॥ 74 ॥

त्रिंशत्कोटीर्हिरण्यस्यब्राह्मणेभ्योददौपुनः ।
नानाभरणवस्त्राणिमहार्हाणि च राघवः ॥ 75 ॥

अर्करश्मिप्रतीकाशांकांचनींमणिविग्रहाम् ।
सुग्रीवायस्रजंदिव्यांप्रायच्छन्मनुजाधिपः ॥ 76 ॥

वैदूर्यमयचित्रे च मणिरत्नविभूषिते ।
वालिपुत्रायधृतिमानंगदायांगदेददौ ॥ 77 ॥

मणिप्रवरजुष्टंतुमुक्ताहारमनुत्तमम् ।
सीतायैप्रददौरामश्चंद्ररश्मिसमप्रभम् ॥ 78 ॥

अरजेवाससीदिव्येशुभान्याभरणानि च ।
अवेक्षमाणावैदेहीप्रददौवायुसूनवे ॥ 79 ॥

अवमुच्यात्मनःकंठाद्दारंजनकनंदिनी ।
अवैक्षतहरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ 80 ॥

तामिंगितज्ञस्संप्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहिसुभगेहारंयस्यतुष्टासिभामिनि ॥ 81 ॥

तेजोधृतिर्यशोदाक्ष्यंसामर्थ्यंविनयोनयः ।
पौरुषंविक्रमोबुद्धिर्यस्मिन्नेतानिसर्वदा ॥ 82 ॥

ददौसावायुपुत्रायतंहारमसितेक्षणा ।
हनूमांस्तेनहारेणशुशुभेवानरर्षभः ॥ 83 ॥

चन्रांशुचयगौरेणश्वेताभ्रेणयथाचलः ।
तोद्विविदमैंधाभ्यांनीलाय च परंतपः सर्वेवानरवृद्धाश्चयेचान्येवानरोत्तमाः ॥ 84 ॥

वासोभिर्भूषणैश्चैवयथार्हंप्रतिपूजिताः ।
सर्वान्कामगुणावनीक्ष्यप्रददौवसुधाधिपः ॥ 85 ॥

विभीषणोऽथसुग्रीवोहनुमान्जांबवांस्तथा ॥ 86 ॥

सर्वेवानरमुख्याश्चरामेणाक्लिष्टकर्मणा ।
यथार्हंपूजिताःसर्वेकामैरत्नैश्चपुष्कलैः ॥ 87 ॥

प्रहृष्टमानसःसर्वेजग्मुरेवयथागतम् ।
दृष्ट्वासर्वेमहात्मानस्ततस्तेवानरर्षभाः ॥ 88 ॥

विसृष्टाःपार्थिवेंद्रेणकिष्किंधांसमुपागमन् ।
सुग्रीवोवानरश्रेष्ठो दृष्टवारामभिषेचनम् ॥ 89 ॥

पूजितश्चैवरामेयकिष्किंधांप्राविशत्पुरीम् ।
विभीषणोऽपिधर्मात्मासहतैर्नैरृतर्षभैः ॥ 90 ॥

लब्ध्वाकुलधनंराजालंकांप्रायान् महायशाः ।
सराज्यमखिलंशासन्निहतारिर्महायशाः ॥ 91 ॥

राघवःपरमोदारश्शशासपरयामुदा ।
उवाचलक्ष्मणंरामोधर्मज्ञंधर्मवत्सलः ॥ 92 ॥

आतिष्ठधर्मज्ञ मयासहेमांगांपूर्वराजाध्युषितांबलेन ।
तुल्यंमयात्वंपितृभिर्धृतायातांयौवराज्येधुरमुद्वहस्व ॥ 93 ॥

सर्वात्मनापर्यनुनीयमानोयदा न सौमित्रिरुपैतियोगम् ।
नियुज्यमानोऽपि च यौवराज्येततोऽभ्यषिंचद्भरतंमहात्मा ॥ 94 ॥

पौंडरीकाश्वमेधाभ्यांवाजपेयेनचासकृत् ।
अन्यैश्चविविधैर्यज्ञैरयजत्पार्थिवात्मजः ॥ 95 ॥

राज्यंदशसहस्राणिप्राप्यवर्षाणिराघवः ।
शताश्वमेधानाजह्रेसदश्वान् भूरिदक्षिणान् ॥ 96 ॥

आजानुलंबिबाहुस्समहावक्षाःप्रतापवान् ।
लक्ष्मणानुचरोरामःशशासपृथिवीमिमाम् ॥ 97 ॥

राघवश्चापिधर्मात्माप्राप्यराज्यमनुत्तमम् ।
ईजेबहुविधैर्यज्ञैससुतभ्रातृबांधवः ॥ 98 ॥

स पर्यदेवन्विधवा न च व्यालकृतंभयम् ।
न व्याधिजंभयंचासीद्रामेराज्यंप्रशासति ॥ 99 ॥

निर्दस्युरभवल्लोकोनानर्थंकश्चिदस्पृशत् ।
न च स्मवृद्धाबालानांप्रेतकार्याणिकुर्वते ॥ 100 ॥

सर्वंमुदितमेवासीत्सर्वोधर्मपरोऽभवत् ।
राममेवानुपश्यंतोनाभ्यहिंसन् परस्परम् ॥ 101 ॥

आसन्वर्षसहस्राणितथापुत्रसहस्रिणः ।
निरामयाविशोकाश्चरामेराज्यंप्रशासति ॥ 102 ॥

रामोरामोरामः इतिप्रजानामभवन्कथाः ।
रामभूतंजगदभूद्रामेराज्यंप्रशासति ॥ 103 ॥

नित्यपुष्पानित्यफलांतरवस्तत्रनिर्व्रणाः ।
कामवर्षी च पर्जन्यस्सुखस्पर्शश्चमारुतः ॥ 104 ॥

ब्राह्मणाःक्षत्रियावैश्याश्शूद्रालोभविवर्जिताः ।
स्वकर्मसुप्रवर्तंतेतुष्टास्स्वैरेवकर्मभिः ॥ 105 ॥

आसन्प्रजाधर्मपरारामेशासतिनानृताः ।
सर्वेलक्षणसंपन्नास्सर्वेधर्मपरायणाः ॥ 106 ॥

दशवर्षसहस्राणिदशवर्षशतानि च भ्रातृभिः सहितःश्रीमानरामोराज्यमकारयत् ।
धन्यंयशस्यमायुष्यंराज्ञां च वियावहम् ॥ 107 ॥

आदिकाव्यमिदंचार्षंपुरावाल्मीकिनाकृतम् ।
पठेध्यःशृणुयाल्लोकेनरःपापात्प्रमुच्यते ॥ 108 ॥

पुत्रकामश्चपुत्रान्वैधनकामोधनानि च ।
लभतेमनुजोलोकेश्रुत्वारामाभिषेचनम् ॥ 109 ॥

महींविजयतेराजारिपूंश्चाप्यधितिष्ठति ।
राघवेणयथामातासुमित्रालक्ष्मणेन च ॥ 110 ॥

भरतेन च कैकेयीजीवपुत्रास्तथास्त्रियः ।
भविष्यंतिसदानंदाःपुत्रपौत्रसमन्विताः ॥ 111 ॥

श्रुत्वारामायणमिदंदीर्घमायुश्चविंदति ।
रामस्यविजयंचैवसर्वमक्लिष्टकर्मणः ॥ 112 ॥

शृणोति य इदंकाव्यंपुरावाल्मीकिनाकृतम् ।
श्रद्धधानोजितक्रोधोदुर्गाण्यतितरत्यसौ ॥ 113 ॥

समागम्यप्रवासांतेरमंतेसहबांधवैः ।
शृण्वंति य इदंकाव्यंपुरावाल्मीकिनाकृतम् ॥ 114 ॥

तेप्रार्थितान्वरान्सर्वान्प्राप्नुवंतीहराघवात् ।
श्रवणेनसुरास्सर्वेप्रीयंतेसंप्रशृण्वताम् ॥ 115 ॥

विनायकाश्चशाम्यंतिगृहेतिष्ठंतियस्यवै ।
विजयेतमहींराजाप्रवासीस्वस्तिमान्भवेत् ॥ 116 ॥

स्त्रियोरजस्वलाश्रुत्वापुत्रान्सूयुरनुत्तमान् ।
पूजयंश्चपठंश्चैवमितिहासंपुरातनम् ॥ 117 ॥

सर्वपापैःप्रमुच्येतदीर्घमायुरवाप्नुयात् ।
प्रणम्यशिरसानित्यंश्रोतव्यंक्षत्रियैर्द्विजात् ॥ 118 ॥

ऐश्वर्यंपुत्रलाभाश्चभविष्यति न संशयः ।
रामायणमिदंकृत्स्नंशृण्वतःपठतस्सदा ॥ 119 ॥

प्रीयतेसततंरामस्सहिविष्णुस्सनातनः ।
आदिदेवोमहाबाहुर्हरिन्नारायणःप्रभुः ॥ 120 ॥

साक्षाद्रामोरघुश्रेष्ठश्शेषोलक्ष्मणौच्यते ।
एवमेतत्पुरावृत्तमाख्यानंभद्रमस्तुवः ॥ 121 ॥

प्रव्याहरतविस्रब्धंबलंविष्णोःप्रवर्थताम् ।
देवाश्चसर्वेतुष्यंतिग्रहणाच्छ्रवणात्तथा ॥ 122 ॥

रामायणस्यश्रवणेतुष्यंतिपितस्सदा ।
भक्त्यारामस्ययेचेमांसंसितामृषिणाकृताम् ॥ 123 ॥

येलिखंती ह च नरास्तेषांवासस्त्रिविष्टपे ।
कुटुंबवृद्धिंधनधान्यवृद्धिंस्त्रियश्चमुख्यास्सुखमुत्तमं च ।
श्रुत्वाशुभंकाव्यमिदंमहार्थंप्राप्नोतिसर्वांभुविचार्थसिद्धम् ॥ 124 ॥

आयुष्यमारोग्यकरंयशस्यंसौभ्रातृकंबुद्धिकरंशुभं च ।
श्रोतव्यमेतन्नियमेनसद्भिराख्यानमोजस्करमृद्धिकामैः ॥ 125 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकत्रिंशदधिकशततमस्सर्गः ॥




Browse Related Categories: